Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ उपोद्घात: ___ सुषुप्त्युत्कान्त्यो देन इति सत्रमपि जीवब्रह्माभेदं स्पष्टं वदति / सुषुप्ती तावत् प्राज्ञेनात्मना संपरिष्वक्तः इति श्रुतिः प्राज्ञस्य परमात्मनः आत्मनाप्देन जीवस्वरूपत्वं वदति / उत्क्रान्तावपि प्राज्ञेनात्मनाऽन्वारूढः इति परमात्मना स्वात्मरूपेणाधिष्ठितः शब्दं कुर्वन् उत्क्रामतीति प्राज्ञस्य स्वात्माभेदं वदति-अतः जीवस्य ब्रह्माभेदः / एवं त्रयाणामेव चैवमुपन्यासः प्रश्नश्चेत्यानुमानिकाधिकरणसत्रे कठोपनिषदि अग्निजीवपरमात्मनामेव वक्तव्यत्वेन प्रश्नः उत्तरं चेत्युक्त्या त्रयाणांमेव चैवमुपन्त्रासः प्रश्नश्च-इति सत्रमपि जीवब्रह्माभेदे प्रमाणम् / तथाहि-मृत्युःकिल नचिकेतसे त्रीन् वरान् प्रददौ तत्रायेन पितृसौमनस्यं द्वितोयेनाग्निविद्यां तृतीयेन च शरीरव्यतिरिक्तात्मानं च ज्ञातुमियेष / न चैवं सति अन्यत्र धर्मादन्यत्राधर्मादिति चतुर्थप्रश्नासंगतिरिति वाच्यं / तृतीयप्रश्नविषयस्य जीवस्यैव शुद्धस्वरूपज्ञानाय प्रश्नकरणात् / प्रश्नस्य भिन्नविषयत्वे त्रीन् वरानित्यस्यानुपपत्तेः / अत एव सत्रे त्रयाणामेचैवमुपन्यासः प्रश्नश्चेति प्रश्नतत्प्रतिवचनोपन्यायोः त्रयाणामित्युक्तिः संगच्छते / पितृसौमनस्यस्यात्र ग्रहणे उपन्यासः प्रश्नश्चेत्युक्तेरनुपपत्तेः पितृसौमनस्ये उपन्यासाभावात् / तथा च अन्यत्र धर्मादित्यादेः जीवविषयत्वं विला न गतिः। स एव जीवः शुद्धः उत्तरत्र प्रणवार्थत्वेन, तथा इन्द्रियाद्यगुक्रमेणोपर्युपरि उरष्टवस्तु प्रस्तुता सा काष्ठा सा परा गतिः इति ब्रह्मण एवोपसंजहारेण च ब्रह्मा / एवं च शरीरव्यतिरिक्तत्वेनोपक्रान्तस्य जीवस्यैव ब्रह्मणा उपसंहारात् अद्वैतसिद्धिः : यंदेवेह तद पुत्रं यदमुत्र तदन्विह / मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति" इति जीवब्रह्मभेददर्शिनः मरणान्मरणं भवतीत्युक्तिश्च संशच्छते / एवं "अङ्गुष्ठमात्रः पुरुषो म आत्मनि तिष्ठति / ईशानो भूतभव्यस्य स एवाद्य स उ श्वः" इति अंगुष्ठमात्रस्येशानाभेदप्रतिपादनं, अन्ते च अंगुष्ठमात्रः पुरुषो जनानां हृदये सन्निविष्टः। त स्वाच्छरीरात् प्रवृहेन्युञ्जादिवेषीकां धर्येण / तं विद्याच्छुक्रममृतमिति–इत्यत्र जीवं धैर्येण शरीरात् पृथक्त्वेन ज्ञात्वा तं च शुक्रममृतं ब्रह्मेति विद्यात् इत्युपदेशः उक्तमेवार्थ द्रढयति / जगद्वाचित्वाधिकरणे च अन्यार्थ तु जैमिनिरिति सूत्रे उदाहृतः क्वैष तदाऽभूत् कुत एतदागादिति प्रश्नः; समाधानं च यदा सुप्तः स्वप्नं न पश्यति अथास्मिन् प्राण एवैकधा भवति इति / अत्र एकीभावः भेदकोपाधिरूपान्तःकरणाभावात् / अत्र च प्राणो ब्रह्म अत एव प्राण इति न्यायात् / तथा स्वाप्ययसूत्राच्च। तथा एतस्मादात्मनः सर्व प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः देवेभ्यो लोकाः इति प्रपञ्चोत्पत्तिःसमाम्नायते एतस्मादात्मनः जगदुत्पत्तिश्रवणात् पूर्वत्रात्मशब्देन जीवस्यैवाभिधानात् जगत्कारणे जीवे समन्वय उक्तः / अत एव जीवब्रह्माभेदः / अवस्थितेरिति काशकृत्स्न:-इदं शंकाविशेषसमाधानार्थ सत्रम् / शंका च मैत्रेयीब्राह्मणस्य परमात्मपरत्वांगीकारे प्रियसंसचितेन लीवात्मना उपक्रमो न संग. ज्छते इति / मत्र त्रिविधसमाधानेषु अन्तिमं अवस्थितेरिति / ब्रह्मणः जीवरूपेणावस्थिते

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96