Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya

View full book text
Previous | Next

Page 22
________________ उपोद्घातः ब्रह्मेति सिद्धान्तकरणात् अरूपवत्त्वविषयमेवेदमधिकरणम् / न स्थानत इत्यस्य ब्रह्मणः उभयलिङ्गत्वं स्वतो न संभवति स्थानतः उपाधितोऽपि न संभवति इति निर्णीते तहि किंलिङ्गं ब्रह्म सविशेषलिङ्ग निविशेष लङ्ग वा इति संशये अरूपवदेव निविशेषमेव ब्रह्म तत्प्रधानत्वात् तत्प्रतिपादकवाक्यानां विषयप्राधान्यात् सविशेषवाक्यानां विधिप्राधान्यादित्यर्थः। अन्यैस्तु बलादेवं व्याख्यातम् / न च वत्प्रत्ययवैय तत्पुरुषव्यावृत्त्यर्थत्वात् / ___ अत्र च आह च तन्मात्र इति सूत्रं अद्वैतवादस्यैवोपोद्वलकं यतः पूर्वत्र प्रकाशादिवच्चावैशेष्यमित्युक्तत्वात् ततः प्रकाशानुवृत्तेः प्रकाशमात्र ब्रह्मचैतन्यं विज्ञानघन एव इति श्रते। अत एव चतुर्थचतुर्थ चितितन्मात्रेण तदात्मकत्वादिति सत्रमपि संगतम्। प्रकाशादिवच्चावशेष्यं प्र. शिश्च कर्मण्यभ्यासात् अत्र च प्रकाशाकाशादयः यथा उपाधिभेदेऽप्यभिन्नाः तथा ब्रह्मापि उपाधिभेदेव भिद्यते स्वतस्तु एकात्मत्वम् इति स्वमतं, ततः भेदाभेदमतनुपस्थाप्य "पूर्ववद्वा" इति वेदाभिमतमद्वैतं सिद्धान्तयति / प्रकृततावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ( 3-2-22) अत्र अथात आदेशो नेतिनेति–इत्यत्र प्रकृतं यत् इयत्तापरिच्छिन्नं तदेव निषिध्यते न तु ब्रह्म तस्य' अन्यत्परमस्ति इति परेण सत्त्वबोधनात् / तृतीयाध्यायतृतीयपादे अक्षरधियां ववरोधः इति सत्रे यत्तदेद्रेश्यमग्राह्य-मित्यादिना निषेधरूपाणां धर्माणामुपसंहार उक्तः तेन निर्गुणं ब्रह्मेति सिद्धम् / आनन्दादयः प्रधानस्येत्यत्र भावरूपधर्माणामुपसंहारः तत्र प्रियशिरस्त्वाद्यप्राप्तिः इति वदन् आनन्दमयस्याब्रह्मत्वमेव सूचयति / अनेन भाष्यगतस्य पुच्छब्रह्मवादस्य सूत्रकारेणाङ्गीकार उक्तः / चतुर्थाध्याये प्रथमपादे आत्मेति तूपगच्छन्ति ग्राहयन्ति च इति सूत्रम् (4-1-3) त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि इति ब्रह्मणि जीवः अभेदमतिं कुर्यादित्युक्त्वा ग्राहयन्ति चेति शेषेण तत्त्वमस्यादिवाक्येनाभेदं ग्राहयन्ति तस्मात् जीवः ब्रह्माभिन्न:--इत्युक्तं तेनाद्वैतसिद्धान्त एव प्रतिपाद्यते। कर्मबादरिरस्य गत्युपपत्तेः (4. 3.7.) अस्मिन् सूत्रे ‘स एनान् ब्रह्म गमयति इति श्रुतं ब्रह्मगमनमुपासकानामचिरादिमार्गेण गन्तृणाम् / तत्र बादरिमतं कार्य ब्रह्म चतुर्मुखब्रह्म ब्रह्मलोकस्थं गमयतीति / अस्य गत्युपपत्तेरिति हेतुरुक्तः गमनेन प्राप्त्युपपत्तेरिति तदर्थः। मुख्यस्य परब्रह्मणः गतिप्राप्यत्वानुपपत्तिः तस्य सवंगतत्वेन अत्र ब्रह्म समश्नुते इति श्रुत्याचात्रव प्राप्तिसंभवात् इत्युक्त्वा परं जैमिनिर्मुख्यत्वादिति

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96