Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतदीपिकायाम् प्रयोगः। आधे सत्यादिवाक्ये ब्रह्मविदाप्नोति परमिति पूर्ववाक्ये ब्रह्मवेदनस्यैव परप्रापकत्वोक्त्या कीदृशं तद्ब्रह्मेति जिज्ञासासंभवात् तदुत्तरस्य च तन्मात्रविषयत्वात् / एवं तत्त्वमस्यादिवाक्यस्यापि कोऽहमित्यात्मस्वरूपस्यैव प्रश्नविषयत्वेन तदधिकप्रतिवचनस्यानाकांक्षितत्वात् / न च लक्षणवाक्यं असाधारणधर्मवैशिष्ट्यप्रतिपादकं न तु अखण्डामिति शङ्क्यम् / सर्वलक्षणवाक्यानामेवाखण्डार्थत्वात् स्वरूपलक्षणस्य स्वरूपमात्रपरत्वात् तटस्थलक्षणे तु जगत्कारणत्वादौ सखण्डत्वमेव / सोऽयं देवदत्त इति वाक्यवत् तत्त्वमसिवाक्यमपि अखण्डार्थम् / तथाहि--सोऽयमित्यत्र तद्देशकालविशिष्टे एतत्कालदेशवैशिष्ट्य न तावत्प्रतिपाद्यं / नापि एतत्काले. विशिष्टे तत्कालवैशिष्टयं बाधात् तत्कालस्येदानीं सत्त्वापाताञ्च / विपरीतेतु एतत्कालादेः अन्धकाले सत्त्वापत्तिः तत्तदवशेषणविशिष्टयोर्भात् नैक्यसंभवः / तथाचोभयविशेषणपरित्यागेन विशेष्यमात्रम भिन्न प्रतीयते -एवमेव च तत्त्वमसीत्यादौ तत्तेदन्त्वोपस्थितिद्वारकाभेदबोधस्यैव तात्पर्यविषयत्वात् तेन च अयं स वा न वा, अयं न सः इति संशयविपर्यययोनिवृत्तेः / यद्यपि प्रत्यभिज्ञायां न लक्षणा शब्दाभ वात् तथापि प्रत्यक्षस्य विशिष्टाभेदविषयत्वे बाधात् स्वरूपाभेदविषयत्वमावश्यकम् / अभेदश्च न प्रकारः स्वरूपतया प्राधान्यात् / अत एव न संसर्गः अभेदे तदनुपपत्तेः / यद्यपि तत्त्मसीति वाक्येन स्वरूपमा ज्ञाप्यते तथापि किञ्चिज्ज्ञत्वोपलक्षिते सर्वज्ञत्वोपलक्षिता मे ज्ञानद्वारकत्वात् तस्य जीवब्रह्मभेदाज्ञाननिवर्तकत्व मुपपन्नम् / तदुक्तं-उपाधिभेद भिन्नार्थो येनकः प्रतिपाद्यते / तदपि स्यादखण्डाधं महत्वं कुम्भखं यथा // इति / तथा च तत्त्वमसिवाक्यमखण्डाथ उपाधिभेदभिन्नेऽर्थे ऐक्यप्रतिपादकत्वात् घटखें महाखं इति वाक्यवत् / ननु आकाङ्क्षायोग्यताऽऽसत्तयः शाब्दबोधे कारणानि तानि च संसृष्टार्थ घटितानि अखण्डार्थे संसर्गाविषयकत्वात् कथं तेषां संभव इति चेन्न / तथाहि आकांक्षाहि अभिधानापर्यवसानं तच्च तात्पर्यविषयान्वयाननुभावकत्वं, तत्रान्वयांशो व्यर्थः येन विना यस्य तात्पर्यविषयाननुभावकत्वं तदेव तस्याकांक्षेति नानुपपत्तिः / योग्यता च तात्पर्यविषयावाधः न तु तात्पर्यविषयसंसर्गाबाधः तत्र ससर्गाशस्याव्यावर्तकत्वात् / सन्निधिश्च नान्वयप्रतियोग्युपस्थितिः अन्वयांशस्य निष्प्रयोजनत्वात् अपि तु अविलंबेन शाब्दबोधानुकूलपदार्थोपस्थितिरेव / अतस्तस्या अप्यखण्डार्थपरे वाक्ये भवत्युपपत्तिरिति सिद्धिकाराः। श्रीनृसिंहस्वामिनोऽप्येवमेव मन्यन्ते। सं. सं. विश्वविद्यालय द्वारा एतग्रन्थसंपादने उपकृत तां श्रीबदरीनाथमहोदयाना ग्रन्थसंपूर्तये महदुपकृतवतां च श्रीगौरीनाथशास्त्रिमहाभागानां चौपकारं स्मृत्वा तेभ्यः प्रणामान् समर्पयामि / -एस सुब्रह्मण्यशास्त्री

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96