Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ उपोद्घातः परं ध्रुवं निचाप्य तन्मृत्युमुखात् प्रमुच्यते / यथोदकं शुद्ध शुद्धमासिवतं तादृगेव भवति एवं मुनेविजानत आत्मा भवति गौतम-इति दृष्टान्तसाम्यात् शुद्धमेव ब्रह्म दार्टान्तिकं ज्ञेयम् / प्रश्नोपनिषदि परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुद्धमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेबाविवेश इति-मुण्डके च यत्तदद्रेश्यमग्रा ह्यमगोत्र मवर्णम वक्षः श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं यद्भुतयोनि परि श्यन्ति धीरा (मु 1-1) माण्डूक्ये----अदृष्टमव्यवहार्यमग्राममलक्षणमचिन्त्यमेकात्मप्रत्ययसारं शान्तंशिवमद्वैतं चतुर्थ मन्यन्ने स आत्मा स विज्ञेयः / ऐतरेयके च प्रज्ञानं ब्रह्मेति / तैत्तिरीयेच सत्यं ज्ञानमनन्तं ब्रह्मआनन्दो ब्रह्म यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने इति----यतो वाचो निवर्तन्ते इत्यादि / छान्दोग्ये च षष्ठे सदेव सोम्ये. द्मग्रासीदित्युपक्रम्य ब्रह्म तत्सत्यं स आत्मा तत्त्वमसि इत्यभेदो बोध्यते। तत्रैव सप्तमे-यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यद्विजानाति तदल्पम्-इति / अष्टमे च अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः इति शुद्धजीवस्य ब्रह्मभावनिर्णयः / बृहदारण्यके च द्वितीये “अथात आदेशो नेतिनेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति' - इति 'इदं महद्भतमनन्तमपारं विज्ञानव : एव' "तदेतद् ब्रह्मा पूर्वमनपरमनन्तरमबाद्यमयमात्मा ब्रह्म सर्वानुभूः "असंगो व्ययं पुरुषः” मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन / एकधैवानु द्रष्टव्यं इत्यादि च / यत्र हि द्वैत मिव भवति तत्रान्योन्यत्पश्येत् यत्रत्वस्य सर्वमात्मैवाभूत् तत्केन क पश्येत् पूर्णमदः पूर्णमिदं पूर्ण पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते / एवं सर्व सूपनिषत्सु वाक्यानि तात्पर्यलिङ्गः षड्भिः सहितानि परमेव ब्रह्म गमयन्ति नित्यशुरामुक्तस्वभावमिति संक्षेपः। भगवद्गीतास्वपि ज्ञेयं यत्तत्प्रवक्ष्यामि इत्युपक्रम्य अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते इति निर्विशेषमेवाह क्षेत्रज्ञं चापि मां विद्धीति जीवब्रह्माभेदमाह मत्स्थानि सर्वभूतानि इत्युक्त्वा न च मत्स्थानि इति निषेधात् प्रपञ्चमिथ्यात्वमाह / न त्वेवाह जातु नासमिति श्लोके अहं त्वं इमे इत्यनुवादात् जीवभेद इति वदतः शास्त्रविरोधः ग्रहैकत्वाधिकरणे उद्देश्यगतसंख्याया अविवक्षितत्वकथनात् 'न करोति न लिप्यते' इति च जीवस्याकर्तृव्रह्मरूपतामाह / अतो गीता अद्वेतपर्रव /

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96