Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटीकाद्वैतवीपिकायाम् सर्वस्रष्टुत्वसंपत्त्यै कृतमिदमधिकरणं चेत् तदा प्रकृतिश्चेत्यधिकरणसमीपे भाव्यम् नात्र / असंगो द्ययं पुरुष इति श्रुतिसमर्थनेऽनुपयोगात् / न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ( 3 / 2 / 11 ) इदमधिकरणं ब्रह्मणः उभयलिङ्गत्वं निराकरोति उभयलिङ्गं च सगुणलिङ्ग निर्विशेषलिङ्गं च / उभयोरपि श्रुतिषु पाठात् अशब्दमस्पर्शमिति यत्तदद्रेश्यमग्राह्यं अस्थूलमनगु इत्यादि निविशेषलिङ्गं सविशेषलिङ्गं तु मनोमयः प्राणशरीरः आत्मनामुपासीत मनोमयं प्राणशरीरं सत्यकामस्सत्यसंकल्प इत्यादि च। तत्र उभयोः न पारमार्थिकत्वं विरोधात् अन्यतरपारमार्थिकत्वे निविशेषत्वं पारमार्थिक सविशेषत्वं तु उपासनार्थं कल्पितगुणैरप्युपासनसंभवात् / तावतापि तस्याङ्गीकारो दर्शितः देवताविग्रहादी। तत्र प्रमाणान्तरविरोधाभावात् / सविशेषत्वं तु अस्थूलादिवाक्यविरुद्धम् तस्मात् न पारमाथिकमिति भगवत्पादाः। सत्राण्यप्यत्र स्पष्टानि / “न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हि / ब्रह्मणः सर्वत्र ब्रह्मोपदेशप्रकरणेष निविशेषस्यैव प्रतिपादनात् / येतु न स्थानतोऽपि यः पृथिव्यां तिष्ठन् इत्याद्युक्तस्थानस्थितस्य स्थानप्रयुक्ता दोषा न भवन्तीति व्याचक्रुः तेषां 'अपुरुषार्थसंबन्ध इत्यध्यारोपे दोषः अप्रकृतत्वात् / अपि च गगनस्याप्यन्तर्यामित्वेन कारणत्वेन च सक्षमत्वात् दोषसंपर्कस्याप्राप्तिरेव अन्यथा अशुचिदेशवृत्तित्वेन मलमूत्रादिवृत्तित्वेन दोषापत्तेः / “एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः"। भगवद्गीतासु च यथा सर्वगतं सोक्षम्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते। इति ब्रह्मणि लेपाभावप्रतिपादनात् पूर्वपक्षो नोदियात् / . अरूपवदेव हि तत्प्रधानत्वात् / इति सिद्धान्तसूत्रम् / अत्र न रूपवत् अरूपवत् निविशेषं ब्रह्मेत्यर्थः / ब्रह्मपदं तत्तु समन्वयादित्यतः सर्वत्रानुषज्यते / कुतः ? तत्प्रधानत्वात् अरूपवतः प्राधान्येन प्रतिपाद्यत्वात् सगुणवाक्यं तु उपासनाविधिप्रधान न गुणप्रधान उपासनं च कल्पितैरपि गुणः भवत्येव। एवमपि शास्त्रान्तरविरोधाभावे गुणाः स्वीकार्याः देवताधिकरणन्यायात् / अत्र तु निविशेषवाक्यविरोधात् नाभ्युपगन्तुं शक्यते इति भाष्यार्थः। अन्येस्तु अरूपसदृशमेव तत् प्रधानत्वात् इति व्याख्यातम् / तत्सादृश्यं केन धर्मेणेत्यवचनात् सूत्राणामसन्दिग्धार्थकत्वनियमविरुद्धमिदम् / अल्पाक्षरमसन्दिग्ध सारवद्विश्वतो मुखम् / अस्तोभमनदद्य च सूत्रं सत्रविदो विदुः इति सत्रलक्षणानाकान्तत्वात् / तत् इत्यप्यनावश्यकं ब्रह्मजिज्ञासाप्रभृति सर्वत्र ब्रह्मपदानुषंगात् / प्रधानत्वात् इति हेतुः सन्दिग्धः ब्रह्मणः ब्रह्मजिज्ञासेत्यादी गुणत्वात् / प्रधानस्यैव लाके कुटुम्बनिर्वाहकस्य गुणदोषसंबन्धात् राज्यं शत्रुगृहीतं नष्टं चेत् तत् प्रधानस्य राज्ञ एव दोषः- इत्यादि / अपि च निर्दोषत्वं निरवद्यं निरञ्जनं इति श्रुतिसिद्धत्वात् न प्रधानत्वहेतुना स्थापनीयं वेदस्य स्वतः प्रामाण्यात् / किञ्च अरूपवदेव हि तत्प्रधानत्वादिति अरूपवद्

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96