Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
View full book text
________________ सटकाद्वैतदीपिकायाम् इत्युत्तरवाक्येन अल्पमपि भेदं यदा कुरुते तदा तस्य भयं इत्युक्तेः पूर्ववाक्ये अभयप्रतिष्ठा अभेदज्ञानमित्यवगम्यते / अतः तैत्तिरीयानन्दवल्ली समग्रा अद्वैतपरेति सिद्धम् / प्राणाकाशज्योतिरधिकरणानि सगुणविषयाणि अन्ते प्राणाधिकरणे "मामेव विजानीही" ति इन्द्रोपदेशात् प्राप्तं इन्द्रस्योपास्यत्वमस्मिन् वाक्येभाति / तत्परिहाराय सूत्रं शास्त्रदृष्टया तूपदेशो वामदेववदिति। अत्र शास्त्रं तत्त्वमसि अहं ब्रह्मास्मि इत्यादिमहावाक्यम् तस्यैवेतरः कर्मकाण्डः उपासनाकाण्डो वा उपकारकः न तु स्वातन्त्र्येण परमपुरुषार्थहेतुः। तादृशज्ञानेन संपन्न इन्द्रः अहं ब्रह्मेति दृष्ट्या मामेव विज्ञानोहीत्युवा च / अतः नेन्द्रस्य द्रष्टव्यताप्रसक्तिः। अत्र अहं ब्रह्मास्मीति महावाक्यस्य शास्त्रत्ववचनात् जीवब्रह्मैक्यमेव शास्त्रार्थः आपतति / द्वितीयपादः प्रायशो न ज्ञेयब्रह्मपरः अपि तु उपास्यब्रह्मपरः। उपासनायां भेदस्यावश्यकत्वात् / तत्र च कर्मकर्तृव्यपदेशाच्च शारीरश्चोभयेऽपि हि भेदेनेन मधीयते इत्यादी उपास्यनिर्णयार्थत्वात् जीवस्यानुपास्यत्वे हेतुरुच्यते। अन्तर्यामा अन्तर्यमनगुणवान् सविशेषं ब्रह्म न निर्विशेषम्। विशेषणभेदव्यपशाभ्यां च नेतरौ इत्यत्रापि जीवो न भूतयोनिः यतः हिमो ह्यमूर्तः इति भेदक विशेषणं / अप्राण इति जीवाद्भेद निदेशश्च / जीव; सोपधि तस्माद्भिन्नं ब्रह्म न ब्रह्मणो भिन्नो जीवः। हावाघधिकरणे ब्रह्म जीवाद्भिन्नंशुद्धत्वात् जीवेन ज्ञेयत्वात् जीवाधिष्ठानत्वाच्च। न जीवो ब्रह्मभिन्नः इति रीत्या औपाधिकात् शुद्धस्य पृथक् सत्त्वं बोधयति / जोवस्येश्वरांशत् चोपाधित इति यथाह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् / उपाधिनः क्रियते भेदरूपः दे। क्षेत्रे वेदमलोऽधमात्मा इति भूस्खा आभास एव च इत्यादिसूत्रेण च सिद्धम् / अंश च प्रतिबिंबरूपत्वमित्येतत् अंशाधिकरणसिद्धान्तस्थितेन आभास एव चेति सोणैव सिद्धम्।। उत्तराच्चेदाविर्भतस्वरूपस्तु इति सत्रमपि जोवस्य अनौपाधिकं शद्धं रूपं ब्रह्मेति सूचयति / तथाहि---दहराधिकरणे दहराकाशो ब्रह्मेति प्रत्यतिष्ठपत् सत्रकारः। दहर उत्तरेभ्यः इत्यारभ्य इतरपरामर्शादिति चेन्ना संभवात् इत्यन्तात् सत्रसंघात् / ततः "प आत्माऽपह्रतपाप्मा” इत्यादिना अपहतपाप्मत्वादिगुणाष्टकं जोवेऽपि संभवति इन्द्राय तादृशगुणविशिष्टस्यैब जीवत्वेन प्रतिपादनात् तथा च दहरो जीव इति शङ्का 'उत्तराच्चेत्' इति सूत्रांशेनोक्त्वा आविर्भूतस्वरूपस्तु इत्यंशेनाविर्भूतस्वरूप एव जीवस्तत्र कीर्तितः स च ब्रह्मैव नातो जीवपरं दहरवाक्यमिति सिद्धान्तितम् / ___ आविर्भूतस्वस्वरूपो जीवः ब्रह्मैव अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति परत्र तस्य उत्तमपुरुषपरमात्माभेदप्रतिपादनात् / संपद्याविर्भावः स्वेन शब्दात् इति सूत्रेणाविर्भूतस्वरूपमनूध तस्य मुक्ता प्रतिज्ञानात् इति तदनन्तरसूत्रेण मुक्तत्वप्रतिपादनात् / एवं चात्र जीवब्रह्माभेद। समर्थितो भवति /

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96