________________
स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - श्रमणं वा ब्राह्मणं वा ग्रामपिण्डावलगकं - वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तेषां संलोके संदर्शने सप्रतिद्वारे तिष्ठेत्, किन्तु स भिक्षुस्तमादाय अवगम्य एकान्तम् अपक्रामेत्, अपक्रम्य अनापाते विजने असंलोके तिष्ठेत्, अथ तस्य भिक्षोः स परो गृहस्थः अनापाते असंलोके तिष्ठतः अशनं वा ४ आहृत्य दद्यात्, स च एवं ब्रूयाद् - हे आयुष्मन्तः श्रमणाः! इदं युष्मभ्यम् अशनं वा ४ सर्वजनार्थं निसृष्टं तद् भुङ्क्ष्वं वा परिभजध्वं वा, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, द्वितीयपदे कारणे सति तं च एकाकी प्रतिगृह्य तृष्णीक उत्प्रेक्षेत अपि च अयं मम एव स्यात्, एवं स मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, किन्तु स तमादाय तत्र गच्छेत्, गत्वा स पूर्वमेव आहारमालोकयेद् दर्शयेद् ब्रूयाच्च - आयुष्मन्तः श्रमणाः ! इदं युष्माकं अशनं वा ४ सर्वजनार्थं निसृष्टं दत्तं तद् भुङ्क्ष्वं वा यावत् परिभजध्वं वा, अथ एवं वदन्तं परो ब्रूयात् - आयुष्मन् ! श्रमण! त्वमेव परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदायं विधिः -
स तत्र परिभाजयन् नैव आत्मनः प्रचुरं २ शाकं २ उच्छ्रितं वर्णादिगुणोपेतं २ रसिकं २ मनोज्ञं २ स्निग्धं २ रूक्षं २ गृह्णीयात् स तत्र अमूर्च्छितः अगृद्धः अग्रथितः अनध्युपपन्नः अनासक्तः सन् बहुसममेव परिभाजयेत्, अथ परिभाजयन्तं परो वदेत् - आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, सर्वे वा एकत्रिताः स्थितास्तु भोक्ष्यामहे वा पास्यामो वा, स तत्र भुञ्जानो नैव आत्मना प्रचुरं २ यावद् रूक्षं भुञ्जीत स तत्र अमूर्च्छितो ४ बहुसममेव भुञ्जीत वा पिबेद् वा ।। २९ ।।
इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह -
सेभिक्खू वा. से जं पुण जाणिज्जा असणं वा माहणं वा गामपिंडोलगं वा अतिहिं बा पुब्वपविट्ठ पेहाए नो ते उवाइक्कम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगंतमवक्कमिज्जा २ अणावायमसंलोए चिट्टिज्जा, अह पुणेवं जाणिज्जा - पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज्ज वा ओभासिज्ज वा एयं. सामग्गियं. ।।सूत्र - ३० ।।
।। पिण्डैषणायां पञ्चम उद्देशकः ।।
स भिक्षुर्वा प्रविष्टः सन् यत्पुनर्जानीयात् - गृहपतिकुले श्रमणं वा ब्राह्मणं वा वनीपकं वा अतिथिं वा पूर्वं प्रविष्टं प्रेक्ष्य नैव तान् उपातिक्रम्य प्रविशेद् वा अवभाषेत याचेत वा, स तमादाय अवगम्य एकान्तं अपक्रामेद्, अपक्रम्य च अनापाताऽसंलोके च तिष्ठेत्, अथ पुनरेवं जानीयात् प्रतिषिद्धे वा दत्ते वा, ततस्तस्मिन् निवृत्ते संयत एव प्रविशेद् वा अवभाषेत वा एवं सामग्र्यं सम्पूर्णो भिक्षुभावः ।। ३० ।।
आचाराङ्गसूत्रम्
।। इति पञ्चमोद्देशकः समाप्तः ।।
१८