________________
इति दर्शयति- तत्र च भिक्षवश्चर्यारताः स्थानरता निषीधिकारताः स्वाध्यायरताः शय्यासंस्तारकरता ग्लानादिभावात् पिण्डपातैषणारताः, सन्ति केचन भिक्षव एवमाख्यायिनः यथावस्थिवसतिगुणदोषाख्यायिनः ऋजवो नियागप्रतिपन्नाः संयमो मोक्षो वा, तं प्रतिपन्ना अमायां कुर्वाणा व्याख्याताः, तदेवं वसतिगुणदोषानाख्याय गतेषु साधुषु श्रावकैः साध्वर्थमेवादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु सन्ति एके श्रावका ये एवंभूतां छलनां कुर्युः, तद्यथा प्राभृतिका दानार्थं कल्पिता इयं वसतिः उत्क्षिप्तपूर्वा दर्शितपूर्वा-आदौ दर्शिता ऽस्ति यथाऽस्यां वसत यूयमिति एवं निक्षिप्तपूर्वाऽस्ति, आत्मकृते निष्पादिता परिभाजितपूर्वाऽस्ति भ्रातृव्यादेः परिकल्पिता परिभुक्तपूर्वाऽस्ति अन्यैरपीयं परिभुक्तपूर्वा परिष्ठापितपूर्वा पूर्वमेवास्माभिरियं परित्यक्ताऽस्ति इत्येवमादिका छलना सम्यग विज्ञाय परिहर्तव्येति, ननु किमेवं छलनासंभवेऽपि यथावस्थितवसतिगुणदोषान् साधुरेवं व्याकुर्वन् सम्यग व्याकरोति? आचार्य आह-हन्त! सम्यगेव व्याकर्ता भवति ।।८७।।
तथाविधकार्यवशाच्चरककार्पटिकादिभिः सह संवासे विधिमाह -
से भिक्खू वा २ जंपुण उवस्सयं जाणिज्जाखुडियाओखुडबुवारियाओ निययाओ संनिरुद्धाओ भवन्ति, तहप्पगा. उवस्सए राओ वा वियाले वा निक्खममाणे वा प. पुरा हत्येण निक्खमिज्ज वा पच्छा पाएण वा तओ संजयामेव निक्खमिज्ज वा २, केवली बूया-आयाणमेयं, जे तत्थ समणाण वा माहणाण वा छत्तए वा मत्तए वा वण्डए वा लट्ठिया वा भिसिया वा नालिया वा चेलं वा चिलिमिली वा चम्मए वा चम्मकोसए वा चम्मच्छेयणए वादुन्द्धे दुन्निक्खित्ते अणिकंपे चलाचले, भिक्खूयराओवा वियाले वा निक्खममाणे वार पयलिज्ज वा २, सेतत्थपयलमाणेवा हत्थं वा. लूसिज्जवा पाणाणिवा ४ जाव ववरोविज्ज वा, अह भिक्खूणं पुब्बोवइटुंजं तह. उवस्सए पुरा हत्थेण निक्ख. वा पच्छा पाएणं तओ संजयामेव नि. पविसिज्ज वा । सूत्र-८८||
स भिक्षुर्वा २ यं पुनः प्रतिश्रयं जानीयात्, तद्यथा-क्षुद्रिकाः क्षुद्रद्वारिका नीचकाः सन्निरुद्धाः गृहस्थाकुला वसतयो भवन्ति, तथाप्रकारे प्रतिश्रये पूर्व चरकादीनामवकाशो दत्तो भवेत् पश्चाच्च साधूनां, एवं सति साधुः कार्यवशाद रात्रौ वा विकाले सन्ध्यायां वा निष्क्रामयन वा प्रविशन वा पूर्व हस्तेन हस्तकरणादिकया गमनक्रियया भूमिं स्पृशन् २ वा पश्चात् पादेन वा ततः संयत एव निष्क्रामयेद्वा, केवली ब्रूयात् - आदानमेतत् यतस्तत्र श्रमणानां वा ब्राह्मणानां वा छत्रकं वा मात्रकं वा दण्डकं वा यष्टिका वा वृषिका आसनविशेषो वा नालिका वा चेलं वा यवनिका वा चर्मकोशकं पार्णित्रंखल्लकादि वा दुर्बद्धं दुर्निक्षिप्तं अनिष्कम्मं चलाचलं स्यात्। भिक्षुश्च रात्रौ विकाले वा निष्क्रामयन प्रविशन वा प्रचलेद्वा पतेद्वा । स तत्र प्रचलन वा पतन् वा हस्तं वा पादं वा यावद् इन्द्रियजातं वा लूषयेद्वा विनाशयेदा. प्राणिनो वा ४ अभिहन्यादयावद् व्यपरोपयेद्वा, हिंस्याद्वा अथ भिक्षुणांपूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे प्रतिश्रये पूर्व हस्तेन निष्क्रामयन् वा पश्चात् पादेन ततः संयत एव निष्क्रामयेद्वा प्रविशेद्वा II८८||
आचारागसूत्रम्
५०