________________
द्रवन अन्तरा यवसानि गोधूमादिधान्यानि वा शकटानि वा रथान् वा स्वचक्राणि स्वसैन्यानि वा परचक्राणि शत्रुसैन्यानि वा तत्र वा विरूपरूपं हस्त्यश्वरथादिकं सन्निरुद्धं प्रेक्ष्य सति परक्रमे तेनैव संयत एव पराक्राम्येत, न पुनः ऋजुना पथा गच्छेत् । अथ कारणिकं साधुं ऋजुना पथा गच्छन्तं दृष्ट्वा सेनापत्यादिकमुद्दिश्य कश्चित् तत्र सेनागतो वदेत् - आयुष्मन्! एष श्रमणः सेनाया अभिनिवारितं सम्मुखतो निवारणं करोति स च सेनापत्यादि: सेनागतं आदिशेत्, तद्यथा - अमुं साधु बाहौ गृहीत्वाऽऽकर्षय तत्र पर: सेनागतः साधुः बाह्वोर्गृहीत्वाऽऽकर्षेत्, तदा नो सुमनाः स्यात् यावत् समाधिना, ततः संयत एव ग्रामानुग्रामं द्रवेत् ।।१२५।।
तथा -
से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से पाउिवहिया उवागछिज्जा, ते णं पारिवहिया एवं वइज्जा-आउ. समणा! केवइए एस गामे वा जाव रायहाणी वा केवईया इत्थ आसा हत्थी गामपिंडोलगा मणुस्सा परिवसंति? से बहुभत्ते बहुउदए बहुजणे बहुजवसे? से अप्पभत्ते अदए अप्पजणे अपजवसे? एयप्पगाराणि पसिणाणि पुच्छिज्जा, एयप्प. पुट्ठो वा अपुट्ठो वा नो वागरिज्जा, एवं खलु. जसबेटेहिं ।।सूत्र-१२६ ।।
द्वितीयोद्देशक: समाप्तः ।। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र प्रातिपथिकाः सन्मुखम् उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन् श्रमण! किम्भूत एष ग्रामो वा यावद् राजधानी वा? कियन्तोऽत्र अश्वा हस्तिनो ग्रामपिण्डावलग्ना याचका मनुष्याश्च परिवसन्ति? एष ग्रामादिर्वा बहुभक्तो बहूदको बहुजनो बहुयवसो बहु यवसं गोधूमादिधान्यं यत्र स उत एष अल्पभक्तः अल्पोदक: अल्पजनः अल्पयवसः? एतत्प्रकारान् प्रश्नान पृच्छेयुः, एतत्प्रकारेण पृष्टो वाऽपृष्टो वा नो व्याकुर्यात् कथयेद नाऽपि तान पृच्छेत्, तथाव्याकरणेऽसंयतप्रवृत्तिप्रसङ्गः प्रश्ने च लाघवप्रसगङ्ग इति । एवं खलु यत् सर्वार्थः सहितः सदा यतेत तत्तस्य भिक्षोः सामग्र्यमिति ।।१२६।।
||तृतीयस्याऽध्ययनस्य द्वितीयोद्देशकः समाप्तः ।।
॥अथ तृतीय उद्देशकः ।। साम्प्रतं तृतीयः समारभ्यते, इहानन्तरं गमनविधिः प्रतिपादितः, इहापि स एव प्रतिपाद्यते, इत्यस्योद्देशकस्यादिसूत्रम् -
से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से वप्पाणि वा जाव वरीओ वा जाव कूगगाराणि वा पासायाणिवा नूमगिहाणि वारुक्खगिहाणि वा पब्बयगि रुक्खंवा चेहयकर्ड थूभंवा चेहयकडं आएसणाणिवा जाव भवणगिहाणि वा नो बाहाओपगिज्झिय २ अंगुलिआए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा, तओ. सं. गामा. १। से भिक्खू वा २... गामा. दू. माणे अंतरा से कच्छाणि वा दवियाणि वा नूमाणि वा वलयाणि वा गहणाणि वा गहणविदुग्गाणि वा वणाणि वा वणवि. पव्वयाणि वा पव्वयवि. अगाणि वा तलागाणि वा
-
आचारागसूत्रम्