Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - अङ्गारदाहेषु वा अङ्गारदाहस्थानेषु एवमग्रेऽपि, क्षारदाहेषु वा मृतकदाहेषु वा मृतकस्तूपिकासु वा मृतकचैत्येषु वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - नद्यायतनेषु वा यत्र पुण्यार्थं स्नानादि क्रियते कर्दमायतनेषु वा धर्मार्थ यत्र लोठनादि क्रियते, ओघायतनेषु प्रवाहतः पूज्यस्थानेषु वा सेचनपथेनीकादौ वाऽन्यरस्मिन सत्ताप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनर्जानीयात् - नव्यासु वा मृत्तिकासु खनितासु, नव्यासु गोप्रहेलिकासु गोचरभूमिषु वा गवादनीषु वा गवार्थं अदनं चारिर्यत्र निक्षिप्यते, खनिषु वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनर्जानीयाद् - डागवति पत्राकारशाकवतिस्थाने वा शाकवति वा मूलकवति वा हस्तङ्कवति वनस्पतिविशेषवति स्थाने वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत्पुनर्जानीयात् - असनवने बीजकाभिधवृक्षविशेषस्तत्प्रधाने वने वा शणवने शणाख्यतृणविशेषस्तत्प्रधाने वने वा धातकीवने वा केतकीवने वा आम्रवणे वा अशोकवने वा नागवने नागाभिधवृक्षविशेषवति वने वा पुन्नागवने वा चुल्लागवने वाऽन्यतरेषु तथाप्रकारेषु पत्रोपेतेषु वा पुष्पोपेतेषु वा फलोपेतेषु वा बीजोपेतेषु वा हरितोपेतेषु वा नोच्चारप्रश्रवणं व्युत्सृजेत् ।।१६६ ।।
कथं चोच्चारादि कुर्यादिति दर्शयति
सेभि.२ सयपाययं वा परपाययंवा गहायसेतमायाएएगंतमवक्कमे अणावायंसि असंलोयंसि अप्पपाणंसि जाव मक्कासंताणयंसि अहारामंसि वा उवस्सयंसि वा तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे अणावाहंसि जाव संताणयंसि अहारामंसिवाझामथंजिल्लंसि वा अन्नयरंसिवा तह. थंडिल्लंसि अचित्तंसि तओसंजयामेव उच्चारपासवणं वोसिरिज्जा, एयंखलु तस्स. सयाजइज्जासि तिमि ||१६७।।
।। उच्चारपासवणसत्तिकओसमतो ।।
स भिक्षुर्वा २ स्वपात्रकं वा परपात्रकं वा गृहीत्वा ततस्तदादाय एकान्तमपक्रामेत्, अपक्रम्य चाऽनापातेऽसंलोकेऽल्पप्राणे यावदल्पमर्कटसन्तानकेऽथ आरामे वा प्रतिश्रये वा ततः संयत एवोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत् समाधिपात्रकमादायैकान्तमपक्रामेद अपक्रम्य चाऽनाबाधे यावद् अल्पसन्तानकेऽथ आरामे वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिलेऽचित्ते ततः संयत एवोच्चारप्रश्रवणं व्युत्सृजेत्-परिष्ठापयेदिति । एतत् खलु तस्य भिक्षोः सामग्र्यमिति सदा यतस्व, इति ब्रवीमि ।।१६७।।
|| तृतीयं सप्तैककमादितो दशमध्ययनं समाप्तम् ।। ।। अथ चतुर्थः सप्तैकक: - शब्दाऽध्ययनम् ।।
तृतीयानन्तरं चतुर्थः सप्तैककः समारभ्यते, इहाये स्थानं द्वितीये स्वाध्यायभूमिस्तृतीये उच्चारादिविधिः प्रतिपादितः, तेषु च वर्तमानो यद्यनुकूलप्रतिकूलशब्दान् श्रृणुयात्तेष्वरक्तद्विष्टेन भाव्यम्,
आचाराङ्गसूत्रम्
१०३

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146