Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 124
________________ यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रात्र्यां बहवो देवाश्च देव्यश्चैकं महान्तममृतवर्षं च गन्धवर्षं च चूर्णवर्षं च पुष्पवर्षं च हिरण्यवर्षं च रत्नवर्षं चाऽवर्षयन् । यस्यां रात्र्यां त्रिशला क्षत्रियाणी श्रमणं भगवन्तं महावीरं प्रसूता तस्यां रात्र्यां भवनपति-वानव्यन्तरज्योतिष्क-विमानवासिनो देवाश्च देव्यश्च श्रमणस्य भगवतो महावीरस्य सूतिकर्माणि तीर्थङ्कराऽभिषेकं चाऽकुर्वन् । यतःप्रभृति श्रमणो भगवान महावीरस्त्रिशलायाः कुक्षौ गर्भ - गर्भतया आगतस्ततःप्रभृति तत्कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शंखशिलाप्रवालेनाऽतीव २ परिवर्धते, ततः श्रमणस्य भगवतो महावीरस्य मातापितरौ एतदर्थं - हिरण्यादीनां परिवर्धनं ज्ञात्वा निर्वर्तिते दशाहिके जन्ममहोत्सवे एकादशे च दिवसे व्यतिक्रान्ते सति शुचीभूते द्वादशे दिवसे सम्प्राप्ते सति विपुलमशन-पान-खादिम-स्वादिममुपस्कारयतः - संस्कारयतः, उपस्कारयित्वा च मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमन्त्रयतः, मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमन्त्र्य, बहुभ्यः श्रमण-ब्राह्मणकृपणेभ्यो वनीपकेभ्यः- भिक्षावृत्तिकेभ्यो भिक्षोण्डपण्डरगादिभ्यश्च- सन्यासिविशेषेभ्यो विच्छर्दयतः - विशेषेण त्यजतः विगोपयतः - गुप्तं सद्दानेन प्रकटीकुरुतः, विश्राणयतः - यच्छतः, तथा दायारेषु - याचकेभ्यो दानं पर्याप्तं- यथेष्टं भाजयत एवं श्रमणादिभ्यो विच्छर्दयित्वा विगोपयित्वा विश्राणयित्वा तथा दायारेषु पर्याप्तं भाजयित्वा मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयतः, मित्रज्ञातिस्वजनसम्बन्धिवर्ग भोजयित्वा, मित्रज्ञातिस्वनसम्बन्धिवर्गेण इमं एतदूपम् - एतदनुरूपं यद्वा एतादृशं नामधेयं कारापयतः, तथाहि- यतःप्रभृति अयं कुमारस्त्रिशलाया कुक्षौ गर्भतया आभूतः - उत्पन्नः, ततः प्रभृति इदं कुलं विपुलेन हिरण्येन शंखशिलाप्रवालेनाऽतीव २ परिवर्धते, तस्माद् भवतु कुमारो वर्धमानो नाम्ना।। - तओणं समणे भगवं महावीरे पंचधाइपरिखुडे, तं. - खीरधाईए १ मज्जणधाईए२ मंडणधाईए २ खेलावणधाईए ४ अंकधा. ५ अंकाओ अंकं साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमल्लीणेविवचंपयपायवे अहाणुपुब्बीए संवह । तओणं समणे भगवं विन्नायपरिणयमिते विणियत्तबालभावे अप्पुस्सुयाइ उरालाई माणुस्सगाई पंचलक्खणाई कामभोगाइं सह-फरिस-रस-रूव-गंधाइं परियारेमाणे एवं च णं विहरह सू.१७६।। ततः श्रमणो भगवान् महावीरः पञ्चधात्रीपरिवृतः तद्यथा-क्षीरधात्र्या (१) मज्जनधात्र्या (२) मण्डनधात्र्या (३) क्रीडापनधात्र्या (४) अङ्कधात्र्या (५) अङ्कतोऽङ्क संह्रियमाणो रम्ये मणिकुट्टिमतले गिरिकन्दरसमाश्रित इव चम्पकपादपो यथानुपूर्व्या संवर्धते, ततः श्रमणो भगवान् महावीरो विज्ञानपरिणतमात्रो विनिवृत्तबालभावो अनुत्सुकानुदारान् - भोक्तुरौदासीन्यसूचकं विशेषणं भोगेषु संभाव्यते, मानुष्यकान् पञ्चलक्षणान् कामभोगान् शब्दरूपस्पर्शरसगन्धान परिचारयन् - भुञ्जान एवं च विहरति ।।१७६।। किच समणे भगवं महावीरे कासवगुत्ते, तस्सणं इमे तिन्नि नामधिज्जा एवमाहिज्जंति, आचारागसूत्रम् % 3D ११५

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146