Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
घ्राणतो जीवो मनोज्ञाऽमनोज्ञान गन्धानाजिघ्रतीति तृतीया भावना ।।३।।
अथाऽपरा चतुर्थी भावना - जिह्वातो जीवो मनोज्ञाऽमनोज्ञान रसानास्वादयति। मनोज्ञाऽमनोज्ञेषु रसेषु न सञ्जत यावन्न विनिघातमापद्येत । केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु रसेषु सञ्जमानो यावद विनिघातमापद्यमानः शान्तिभेदाद यावद भ्रंशेत। ..
न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ||१३४।।
जिह्वातो जीवो मनोज्ञाऽमनोज्ञरसानास्वादयतीति चतुर्थी भावना ||४||
अथाऽपरा पञ्चमी भावना - स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसेवते। मनोज्ञाऽमनोज्ञेषु स्पर्शेषु न सञ्जत यावन्न विनिघातमापद्येत। केवली ब्रूयाद् - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु स्पर्शेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदात् शान्तिप्रधानकेवलिप्रज्ञप्ताद्धर्मा भ्रंशेत।
न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत्। स्पर्शेन्द्रियतो जीवो मनोज्ञाऽमनोज्ञान स्पर्शान् प्रतिसंवेदयतीति पञ्चमी भावना ||५||
एतावतैव पञ्चमं महाव्रतं सम्यगवस्थितमाज्ञयाऽऽराधितं चाऽपि भवतीति पञ्चमं भदन्त! महाव्रतम्। इत्येतैः पञ्चमहाव्रतैः पञ्चविंशत्या च भावनाभिः सम्पन्नः अनगारो यथाश्रुतं यथाकल्पं यथामार्गं सम्यक कायेन स्पृष्ट्वा पालयित्वा तीरयित्वा कीर्तयित्वाऽऽज्ञयाऽऽराधयिता चापि भवति ||१७९।।
।। भावनाध्ययनं समाप्तं पञ्चदशम्। समाप्ता च तृतीया चूडा ।।
आचारागसूत्रम्
१३२

Page Navigation
1 ... 139 140 141 142 143 144 145 146