Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
प्रशस्ति: श्रीमद्वीरजिनेशस्य श्रीसुधर्मा गणाधिपः । तपगच्छतरोर्मूलं श्रीगणिपिटकस्य च ।।१।। तस्य परम्पराऽऽयातः प्रवचनप्रभावकः । श्रीमद्विजयसिंहाख्यः सिंहोः दुर्वादिकुम्भिषु ।।२।। तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः । श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः ।।३।। पट्टे तदीयके श्रीमान कर्पूरविजयाभिधः । अभवदतिकर्पूरः प्रसरच्छीलसौरभः ।।४।। तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः । क्षमाभृतां पुरोगामी श्रीक्षमाविजयोऽभवत् ।।५।। जिनोत्तम-पद्म-रूप-कीर्ति-कस्तूरपूर्वकाः । विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः ।।६।। तत्पट्टे स्वतपस्तेजस्तिरस्कृतनभोमणिः । श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् ।।७।। तस्य शिष्योऽभवद बुद्ध्या विनिर्जितबृहस्पतिः । श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः ।।८।। तत्पट्टे न्यायपाथोधिर्धिया धृत्या समन्वितः । सदैव सत्यतत्त्वान्विट् सिद्धान्त-रै-कषोपलः ।।९।। अपूर्वग्रन्थनिर्माता मिथ्यामतनिकन्दनः । नाम्नाऽपरेण विख्यात आत्मारामस्तपोधनः ||१०|| प्रौढः संवेगिशाखाऽऽद्याऽऽचार्यो भूरिसुशिष्यकः। अभूच्छ्रीविजयानन्दो जगदानन्ददायकः ।।११।।
कुलकम् ।। स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् । श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः ।।१२।। शिष्यः श्रीविजयानन्दसूरेर्बभूव सिद्धवाक् । श्रीवीरविजयो मन्येऽन्यजन्माचीर्णसंयमः ।।१३।। आबालभाववैराग्य उपाध्यायवरः कविः । स्वस्याद्भुतचरित्रेण सज्जनस्वान्तचित्रकृत् ।।१४।।
युग्मम्।। विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः । श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने ||१५|| तत्कालधीश्च सज्योतिःसर्वागमरहस्यवित् । श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् ।।१६।।युग्मम्।। तस्याऽभूदभिजः प्रशस्तचरणः शिष्यः समेषां मतः, सेव्यः सार्धसप्तशताधिकमुनिव्रातेन वात्सल्यभूः । स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मवातविदारणैकसुभटः श्रीप्रेमसूरीश्वरः ।।१७।।
शार्दूलविक्रीडितम् ।। तस्य चरमशिष्येण श्री कुलचन्द्रसूरिणा। संस्कृत्य वैक्रमीयेब्दे ऋषीन्द्रियाभ्रदृग्मिते ।।१८।। मुख्यतयोपजीव्य श्रीशीलाझाचार्यवार्तिकम् ) चूर्णिं क्वचिच्च नियुक्तिमेवं संकलितो मया ।।१९।। पूर्वपुरुषसत्कोऽर्थस्तथापि मतिमान्यतः । भवेत् सूत्रितमुत्सूत्रं शोधयन्तु बहुश्रुताः ।।२०।। निजपरोपकाराय कृतेनानेन यच्छुभम् । तेन भवतु लोकोऽयं च पञ्ज्ञाचारपेशलः ।।२१।।
चतुर्भिर्विशेषकम् ।।
आचारागसूत्रम्
१३६

Page Navigation
1 ... 143 144 145 146