Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 143
________________ मुनेर्ध्यायतः । समाहितस्याऽग्निशिखेव तेजसा, तपश्च प्रज्ञा च यशश्च वर्धते || १४० ॥ तथा - दिसोदिसणंतजिणेण ताइणा, महब्वया खेमपया पवेइया । महागुरु निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा ।।१४१ ।। दिशोदिशं - सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु, अनन्तजिनेन - अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च रागद्वेषजयनादनन्तजिनस्तेन त्रायिणा महाव्रतानि क्षेमपदानि प्रवेदितानि । महागुरूणि निःस्वकराणि - स्वं कर्म अनादिसम्बन्धात्तदपनयनसामर्थ्यान्निःस्वकराणि, उदीरितानि, तम इव तेजस्त्रिदिशं - त्रिलोकीप्रकाशकानि ।। १४१ ।। मूलगुणानन्तरमुत्तरगुणाऽभिधित्सयाह - सिएहिं भिक्खू असिए परिव्बए, असज्जमित्थीसु चइज्ज पूयणं । अणिस्सिओ लोगमिण तहा परं, न मिज्जई कामगुणेहिं पंडिए ।।१४२ ।। सितैः - सिताः बद्धाः कर्मणा गृहपाशेन रागद्वेषादिना वेति गृहस्था अन्यतीर्थिका वा तैः सह भिक्षुरसितः - अबद्धः सङ्गमकुर्वन् परिव्रजेद्, असजन् स्त्रीषु त्यजेत् पूजनम् । अनिश्रितो लोकमेनं तथा परं, न मीयते न तोल्यते न वशं गच्छतीत्यिर्थः कामगुणैः - मनोज्ञशब्दादिभिः पण्डितः ।।१४२।। तहा विमुक्कस्स परिन्नचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो । बिसुज्झई जंसि मलं पुरेकडं, समीरियं रुप्पमलं व जोइणा । । १४३ || तथा विमुक्तस्य परिज्ञाचारिणः, धृतिमतो दुःखक्षमस्य भिक्षोः । विशुध्यति यदस्य - साधोः, मलं पुराकृतं पूर्वोपात्तं कर्म, समीरितं रूप्यमलमिव ज्योतिषा ।।१४३ ।। से हु परिन्नासयंमि बट्टई, निरासंसे उबरय मेहुणा चरे । भुजंगमे जुन्नतयं जहा चए, विमुच्बई से बुहसिज्ज माहणे ।। १४४ ।। स खलु परिज्ञासमये वर्तते, निराशंस उपरतो मैथुनात् चरेत् । भुजङ्गमो जीर्णत्वचं यथा त्यजेत् विमुच्यते स दुःखशय्यातो माहनः ।। १४४।। समुद्राधिकारमधिकृत्याह - जमाहु ओहं सलिलं अपारयं, महासमुहं व भुयाहि दुत्तरं । अहे य परिजाणाहि पंडिए, से हु मुणी अंतकडेति बुच्चई || १४५ ।। यमाहुरोघं - द्रव्यौघः सलिलप्रवेशः, भावौघः आस्त्रवद्वाराणि तं सलिलमपारगं, महासमुद्रि भुजाभ्यां दुस्तरम् । अथैनं परिजानीहि पण्डितः, स खलु मुनिरन्तकृदुच्यते ।।१४५।। आचाराङ्गसूत्रम् १३४

Loading...

Page Navigation
1 ... 141 142 143 144 145 146