Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 142
________________ अथ चतुर्थचूडारूपं विमुक्त्यध्ययनम् इहानन्तरं महाव्रतभावनाः प्रतिपादिताः, तदिहाप्यनित्यभावनादिकं प्रतिपाद्यते, इत्य स्याऽध्ययनस्याऽऽदिसूत्रम् अनित्यत्वाधिकारे - ५. अणिच्चमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अनुतरं । विउसिरे विन्नु अगारवंधणं, अभीरु आरंभपरिग्गहं चए ।।१३६ ।। अनित्यं - मनुष्यादिरभवस्तच्छरीरं वा, आवासमुपयन्ति जन्तवः, प्रलोकयेत् श्रुत्वेदमनुत्तरं - मौनीन्द्रप्रवचनम्। व्युत्सृजेद विज्ञः अगारबन्धनं - गृहबन्धनं पुत्रकलत्रधनधान्यादिरूपम्, अभीरुः आरम्भपरिग्रहं त्यजेत् ।।१३६।। साम्प्रतं पर्वताधिकारेतहागयं भिक्खुमणंतसंजयं, अणेलिसं विन्नु चरंतमेसणं । तुवंति वायाहिं अभिदवं नरा, सरेहिंसंगामगयं व कुंजरं ।।१३७।। तथागतम् - अनित्यवासनोपेतत्यक्तगृहबन्धनाऽऽरम्भपरिग्रहं भिक्षुमनन्तसंयतम् - अनन्तेष्वेकेन्द्रियादिषु संयतम्, अनीदृशं विज्ञं चरन्तमेषणायाम् । तुदन्ति वाग्भिरभिद्रवन्ति - लोष्टप्रहारादिभिश्च नराः, शरैः सङ्ग्रामगतमिव कुञ्जरम् ||१३७ ।। तहप्पगारेहिंजणेहिं हीलिए, ससहफासा फरुसा उईरिया । तितिक्खए नाणी अबुढचेयसा, गिरिब वाएण न संपवेयए ।।१३८।। तथाप्रकारैर्जनीलितः - कदर्थितः, सशब्दस्पर्शान् परुषानुदीरितान् । तितिक्षते ज्ञानी अदुष्टचेतसा, गिरिरिव वातेन न सम्प्रवेपते ।।१३८।। अपि च - उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सबसहे महामुणी, तहा हि से सुस्समणे समाहिए ।।१३९।। उपेक्षमाणः - माध्यस्थ्यमवलम्बमानः, कुशलैः - गीतार्थेः सह संवसेत्, अकान्तदुःखिनस्त्रसस्थावरान दुःखिनः । अलूषयन् - अपरितापयन् सर्वसहो महामुनिः, तथा ह्यसौ सुश्रमणः समाख्यातः ।।१३९ ।। किचविऊ नए धम्मपयं अणुतरं विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तवोय पन्ना यजसोय वढह ।।१४०।। विद्वान् नतो धर्मपदमनुत्तरं - क्षान्त्यादिकम्, एवंभूतस्य विनीततृष्णस्य - अपनीततृष्णस्य, भाचारागसूत्रम् १३३

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146