Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 116
________________ नाऽदृष्टेषु साक्षादनुपलब्धेषु शब्देषु, न कान्तेषु शब्देषु सज्जेद् नो गृध्येत्, नाध्युपपन्नो भवेत्। एतत् खलु तस्य भिक्षोः सामग्र्यम् यावद् यतस्व इति ब्रवीमि। ___ इह च सर्वत्राऽयं दोषः-अजितेन्द्रियत्वं स्वाध्यायहानी रागद्वेषसम्भव एवं स्वधियाऽन्येऽपि दोषाः समालोच्या इति ।।१७०।। चतुर्थं सप्तैककमादित एकादशं समाप्तम्। ...... || अथ पञ्चमः रूपसप्तैककः ।। चतुर्थसप्तैककानन्तरं पञ्चमं समारभ्यते, इहानन्तरं श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा तदिहापि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यस्याध्ययनस्य सूत्रमिदम् - से भि. अहावेगइयाई रुवाइं पासइ. तं. गंथिमाणि वा वेठिमाणि वा पूरिमाणि वा संघाइमाणि वा कट्टकम्माणि वा पोत्थकम्माणि वा, चित्तक. मणिकम्माणि वा दंतक. पत्तछिज्जकम्माणि वा विविहाणि वा वेठिमाइं अन्नयराइं. विरू. चक्खुदंसणपडियाए नो अभिसंधारिज्जा गमणाए, एवं नायव्वं जहा सहपडिमा सव्वा वाइत्तवज्जा रूवपतिमावि ||१७१॥पञ्चमं सत्तिक्कयं ।। सभिक्षुरथ कानिचिदूपाणि पश्येत्, तद्यथा-ग्रथितानि ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि वा वेष्टितानि वस्त्रादिनिर्वर्त्तितपुत्तलिकादीनि वा पूरिमाणि अन्तःपूरणेन पुरुषाद्याकृतीनि वा संघातिमानि चोलकादीनि वा काष्ठकर्माणि रथादीनि वा पुस्तकर्माणि लेप्यकर्माणि वा चित्रकर्माणि वा मणिकर्माणि वा दन्तकर्माणि वा पत्रच्छेद्यकर्माणि वा विविधानि वा वेष्टितानि अन्यतराणि वा विरूपरूपाणि वा चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद गमनाय। एवं ज्ञातव्यं यथा शब्दप्रतिमा शब्दविषयकोऽभिग्रहविशेषः शब्दसप्तैककान्तर्गतः सर्वा वादित्रवर्जा वादित्रसूत्रं विवर्य सर्वं ज्ञातव्यमित्यर्थः, रूपप्रतिमाऽपि रूपविषयकोऽभिग्रहविशेषः ।।१७१।। || रागद्वेषादयो दोषा अत्राऽपि पूर्ववत् समायोज्याः । पञ्चमं सप्तैककाध्ययनमादितो द्वादशं समाप्तमिति ।। - ॥अथ परक्रियामिधं षष्ठं सप्तैककमध्ययनम् ।। साम्प्रतं पञ्चमानन्तरं षष्ठः सप्तैककः समारभ्यते, रागद्वेषोत्पत्तिनिमित्तप्रतिषेधोऽभिहितः, तदिहापि स एवान्येन प्रकारेणाभिधीयते, इत्यस्याऽऽदिसूत्रम् - परकिरियं अज्झत्थियं संसेसियं नो तं सायए नो तं नियमे, सिया से परो पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तंसायए नोतं नियमे। सिया परोपायाइं संवाहिज्ज वा पलिमहिज्ज वा नोतंसायए नोतं नियमे।से सिया परोपायाई कुसिज्ज + वारहज्ज वानो तंसायए नोतं नियमे।से सिया परोपायाइं तिल्लेण वाघ. वसाए वा मक्खिज्ज वा अन्भिगिज्जवानो.तं.सेसिया परोपायालद्वेण वा कक्केण वाचुन्नेण वा वण्णेन वा उल्लोटिज्जवाउबलिज्जवानोतं. सेसियापरोपायाईसीओवगवियडेण २ उच्छोलिज्ज वा पहोलिज्ज वा नो तं.से सिया परोपायाइं अन्नयरेण विलेवणजाएण आलिंपिज्ज वा आचारागसूत्रम् १०७

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146