________________
तेन साधुना स्वयमेषितव्या एषित्वा च तान् अशनं वा पानं वा खादिमं वा स्वादिमं वा तेन स्वयमाहृतेनाऽशनादिना तान् साधर्मिकान् साम्भोगिकान् समनोज्ञान् उपनिमन्त्रयेत् । न चैव परप्रतिज्ञया परवृत्तितया वाऽवगृह्य पराऽऽनीतं यदशनादि तद् आश्रित्य २ उपनिमन्त्रयेद् अपि तु स्वयमेवाऽऽनीतेनोपनिमन्त्रयेदिति ।।१५६ ।।
तथा - से आगंतारेसु बा ४ जाब से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुन्ना उवागच्छिज्जा जे तेण सयमेसित्तए पीठे वा फलए वा सिज्जा वा संथारए बा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिज्जा, नो चेव णं परबडियाए ओगिज्झिय २ उबनिमंतिज्जा ।
स भिक्षुः आगन्तारेषु वा ४ यावत् स साधुः किं पुनस्तत्र कुर्यादित्याह - तत्राऽवग्रहे एवमवगृहीते ये तत्र साधर्मिका अन्यसाम्भोगिका अन्येषां साम्भोगिका असाम्भोगिका इत्यर्थः समनोज्ञा उद्यतविहारिण उपागच्छेयुस्ते तेन साधुना स्वयमेषितव्या एषित्वा च पीठं वा फलकं वा शय्या वा संस्तारको वा तेन स्वयं आहृतेन तान् साधर्मिकान् अन्यसाम्भोगिकान् समनोज्ञान् उपनिमन्त्रयेत् । न चैव परप्रतिज्ञया परवृत्तितया वाऽवगृह्य पूर्ववत् परानीतं यत्पीठादि तदाश्रित्य २ उपनिमन्त्रयेद् । अपि तु स्वयमानीतेनोपनिमन्त्रयेदिति ।
आगंतारेसु वा ४ जाव से किं पुण तत्थुग्गहंसि एवोग्गहियंसि जे तत्थ गाहावईण बा गाहा. पुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अप्पणो एगस्स अट्ठाए पारिहारियं जाइत्ता नो अन्नमन्नस्स दिज्ज वा अणुपइज्ज बा, सयंकरणिज्जंतिकट्टु, से तमायाए तत्थ गच्छिज्जा २ पुब्बामेव उत्ताणए हत्थे कट्टु भूमीए बाठवित्ता इमं खलु २ त्ति आलोइज्जा, नो चेव णं सयं पाणिणा परपाणिंसि पच्चपिणिज्जा ।।१५७ ।।
स भिक्षुरागन्तारेषु वा ४ यावत् स भिक्षुः किं पुनस्तत्र कुर्यादित्याह - तत्राऽवग्रहेऽवगृहीते यत्तत्र गृहपतीनां वा गृहपतिपुत्राणां वा सूचीर्वा पिष्पलकं वा कर्णशोधनकं वा नखच्छेदनकं वा तद् आत्मन एकस्यार्थाय प्रातिहारिकं याचित्वा नाऽन्यस्मै दद्याद् वाऽनुप्रदद्याद् वा, स्वयं करणीयमिति कृत्वा तदादाय तत्र गच्छेद् गत्वा च पूर्वमेव सूच्यादिकमुत्तानके हस्ते कृत्वा भूमौ वा स्थाप्य एतत् खलु गृहाणेति आलोचयेद् वदेत्, न चैव स्वयं पाणिना परपाणौ गृहस्थपाणौ एवमेव परस्परमपि परपाणौ शूच्यादिकं प्रत्यर्पयेत् । अनेन सूत्रेण साधोः सर्वत्र देशे काले च स्वयंसेवकता सावधानता च सूचिता ।। १५७ ।।
अपि च
-
से भि० से जं. उग्गहं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए तह. उग्गहं नो गिहिज्जा वा २ । से भि० से जं पुण उग्गहं जाणिज्जा थूणंसि वा ४ तह. अंतलिक्खजाए दुब्बद्वे जाव नो उग्गिण्हिज्जा वा २ । से भि० से जं. कुलियंसि वा ४ जाव आचाराङ्गसूत्रम्
९२