Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 62
________________ स भिक्षुर्वा २ तत्र यत्पुनः जानीयात्, तद्यथा-प्रतिश्रये आकीर्णसंलेख्यं तत्र चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः पूर्वक्रीडितस्मरणं कौतुकादिसंभवश्चेति नो प्राज्ञस्य यावन्नो स्थानादिकं कुर्यात् ।।९८ ।। साम्प्रतं फलकादिसंस्तारकमधिकृत्याह - भिक्खू वा २ अभिकंखिज्जा संथारगं एसित्तए, से जं. संथारगं जाणिज्जा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि. १ । से भिक्खू वा २ से जं. अप्पंडं जाव अप्पसंताणगं गरुयं तहप्पगारं नो प० २। से भिक्खू वा. अप्पंडं जाव अप्पसंताणगं लहुयं अप्पडिहारियं तह. नो प० ३ । से भिक्खू वा अप्पंडं जाव अप्पसंताणगं लहुअं पारिहारियं नो अहाबद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा ४ । से भिक्खू वा २ से जं पुण संथारगं जाणिज्जा अप्पंडं जाब अप्पसंताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा ५ ।। सूत्र - ९९ ।। स भिक्षुर्वा २ अभिकाङ्क्षेत् संस्तारकमेषितुम्, तत्र यत् पुनः संस्तारकं जानीयात् साण्डं यावत् ससन्तानकं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयात् संयमविराधनादोषत्वादिति १ । स भिक्षुर्वा २ तत्र यत् अल्पाण्डं यावत् अल्पसन्तानकं गुरुकं, तथाप्रकारं संस्तारकं लाभे सति नो प्रतिगृह्णीयाद्, गुरुत्वात् प्रत्युपेक्षणादावात्मविराधनादोषसंभवादिति २ । स भिक्षुर्वा २ अल्पाण्डं यावत् अल्पसन्तानकं लघुकं अप्रातिहारिकम् अप्रत्यर्पणीयम् । तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अप्रातिहारिकत्वात्तत्परित्यागादिदोषादिति ३ । स भिक्षुर्वा २ अल्पाण्डं यावद् अल्पसंतानकं लघुकं प्रातिहारिकं प्रत्यर्पणीयं नो यथाबद्धं - सम्यग्बद्धं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अबद्धत्वात्तब्दन्धनादिपलिमन्थदोष इति ४ । स भिक्षुर्वा यत् पुनर्जानीयात्, तद्यथा - अल्पाण्डं यावद् अल्पसन्तानकं लघुकं प्रातिहारिकं यथाबद्धं तथाप्रकारं लाभे सति प्रतिगृह्णीयात् ५ ।। ९९ ।। साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह इच्चेयाइं आयतणाइं उबाइक्कम्म अह भिक्खू जाणिज्जा इमाहिं चउहिं पतिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा - इक्कडं वा कठिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइज्जा आउसोति वा भ. ! वाहिसि मे इत्तो अन्नयरं संथारगं? तह. संथारगं सयं वा णं जाइज्जा परो वा बेज्जा फासुयं एसणिज्जं जान पडि., पढमा पडिमा । सूत्र- १०० ।। इत्येतानि आयतनानि कर्मबन्धस्थानानि उपातिक्रम्य परिहृत्य - अथ भिक्षुर्जानीयात् - एताभिश्चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः संस्तारकमेषितुम् ताश्चेमाः - उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृतरूपा ४। आस्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्त्रोऽपि कल्पन्त इति । तत्र खलु इमा प्रथमा प्रतिमा - स भिक्षुर्वा २ उद्दिश्योद्दिश्य इक्कडादीनामन्यतमद् ग्रहीष्यामि नेतरदिति उद्दिश्योद्दिश्य संस्तारकं याचेत्, तद्यथा - इक्कडं वा आचाराङ्गसूत्रम् ५३

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146