________________
स भिक्षुर्वा २ तत्र यत्पुनः जानीयात्, तद्यथा-प्रतिश्रये आकीर्णसंलेख्यं तत्र चित्रभित्तिदर्शनात् स्वाध्यायक्षतिः पूर्वक्रीडितस्मरणं कौतुकादिसंभवश्चेति नो प्राज्ञस्य यावन्नो स्थानादिकं कुर्यात् ।।९८ ।।
साम्प्रतं फलकादिसंस्तारकमधिकृत्याह -
भिक्खू वा २ अभिकंखिज्जा संथारगं एसित्तए, से जं. संथारगं जाणिज्जा सअंडं जाव ससंताणयं, तहप्पगारं संथारं लाभे संते नो पडि. १ । से भिक्खू वा २ से जं. अप्पंडं जाव अप्पसंताणगं गरुयं तहप्पगारं नो प० २। से भिक्खू वा. अप्पंडं जाव अप्पसंताणगं लहुयं अप्पडिहारियं तह. नो प० ३ । से भिक्खू वा अप्पंडं जाव अप्पसंताणगं लहुअं पारिहारियं नो अहाबद्धं तहप्पगारं लाभे संते नो पडिगाहिज्जा ४ । से भिक्खू वा २ से जं पुण संथारगं जाणिज्जा अप्पंडं जाब अप्पसंताणगं लहुअं पाडिहारिअं अहाबद्धं, तहप्पगारं संथारगं लाभे संते पडिगाहिज्जा ५ ।। सूत्र - ९९ ।।
स भिक्षुर्वा २ अभिकाङ्क्षेत् संस्तारकमेषितुम्, तत्र यत् पुनः संस्तारकं जानीयात् साण्डं यावत् ससन्तानकं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयात् संयमविराधनादोषत्वादिति १ । स भिक्षुर्वा २ तत्र यत् अल्पाण्डं यावत् अल्पसन्तानकं गुरुकं, तथाप्रकारं संस्तारकं लाभे सति नो प्रतिगृह्णीयाद्, गुरुत्वात् प्रत्युपेक्षणादावात्मविराधनादोषसंभवादिति २ । स भिक्षुर्वा २ अल्पाण्डं यावत् अल्पसन्तानकं लघुकं अप्रातिहारिकम् अप्रत्यर्पणीयम् । तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अप्रातिहारिकत्वात्तत्परित्यागादिदोषादिति ३ । स भिक्षुर्वा २ अल्पाण्डं यावद् अल्पसंतानकं लघुकं प्रातिहारिकं प्रत्यर्पणीयं नो यथाबद्धं - सम्यग्बद्धं तथाप्रकारं लाभे सति नो प्रतिगृह्णीयाद् अबद्धत्वात्तब्दन्धनादिपलिमन्थदोष इति ४ । स भिक्षुर्वा यत् पुनर्जानीयात्, तद्यथा - अल्पाण्डं यावद् अल्पसन्तानकं लघुकं प्रातिहारिकं यथाबद्धं तथाप्रकारं लाभे सति प्रतिगृह्णीयात् ५ ।। ९९ ।। साम्प्रतं संस्तारकमुद्दिश्याभिग्रहविशेषानाह
इच्चेयाइं आयतणाइं उबाइक्कम्म अह भिक्खू जाणिज्जा इमाहिं चउहिं पतिमाहिं संथारगं एसित्तए, तत्थ खलु इमा पढमा पडिमा से भिक्खू वा २ उद्दिसिय २ संथारगं जाइज्जा, तंजहा - इक्कडं वा कठिणं वा जंतुयं वा परगं वा मोरगं वा तणगं वा सोरगं वा कुसं वा कुच्चगं वा पिप्पलगं वा पलालगं वा, से पुव्वामेव आलोइज्जा आउसोति वा भ. ! वाहिसि मे इत्तो अन्नयरं संथारगं? तह. संथारगं सयं वा णं जाइज्जा परो वा बेज्जा फासुयं एसणिज्जं जान पडि., पढमा पडिमा । सूत्र- १०० ।।
इत्येतानि आयतनानि कर्मबन्धस्थानानि उपातिक्रम्य परिहृत्य - अथ भिक्षुर्जानीयात् - एताभिश्चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः संस्तारकमेषितुम् ताश्चेमाः - उद्दिष्ट १ प्रेक्ष्य २ तस्यैव ३ यथासंस्तृतरूपा ४। आस्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तरयोरन्यतरस्यामभिग्रहः, गच्छान्तर्गतानां तु चतस्त्रोऽपि कल्पन्त इति । तत्र खलु इमा प्रथमा प्रतिमा - स भिक्षुर्वा २ उद्दिश्योद्दिश्य इक्कडादीनामन्यतमद् ग्रहीष्यामि नेतरदिति उद्दिश्योद्दिश्य संस्तारकं याचेत्, तद्यथा - इक्कडं वा
आचाराङ्गसूत्रम्
५३