________________
आलोइज्जा-आउसोत्ति वा भइणित्ति वा वाहिसि मे इत्तो अन्नयरं भोयणजायं?, से सेवं वयंतस्स परोहत्थं वा मतं वावबिंवा भायणं वासीओदगवियडेण वा उसिणोदगवियोण वा उच्छोलिज्ज वा पहोइज्ज वासेपुवामेव आलोइज्जा आउसोति वा भइणितिवा! मा एयं तुमहत्थं वा. ४ सीओवगवियजेण वा २ उच्छोलेहि वा २, अभिकंखसिमेवाउंएवमेव वलयाहि, से सेवं वयंतस्स परो हत्थं वा ४ सीओ. उसि. उच्छोलित्ता पहोइत्ता आहट्ट वलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा ४ असणं वा ४ अफासुयं जाव नो पजिगाहिज्जा । अह पुण एवं जाणिज्जा नो पुरेकम्मकएणं उदउल्लेणं तहप्पगारेणं वा उवउल्लेण (ससिणिद्धेण) वा हत्येण वा ४ असणं वा ४ अफासुयंजाव नोपडिगाहिज्जा। अह पुणेवंजाणिज्जा-नो उदउल्लेण ससिणिद्वेण सेसंतंचेवा एवं-ससरक्खे उदउल्ले, ससिणिढे मट्टिया ऊसे। हरियाले हिंगुलए, मणोसिला अंजणे लोणे ।।१।। गेरुय वन्निय सेठिय सोरट्ठिय पिट्ट कुक्कुस उक्कुटुसंसट्टेण। अह पुणेवं जाणिज्जा - नो असंसट्टे, संसट्टे, तहप्पगारेण संसट्टेण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिगाहिज्जा ।। सूत्र-३३॥
__अथ तत्र कञ्चिद भुझानं प्रेक्ष्य गृहपतिं वा यावत् कर्मकरी वा स पूर्वमेव आलोचयेद् - इदानीं याचितुं नोचितं किन्तु कारणे सति याचेत, तद्यथा - भो आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मेऽस्माद् अन्यतरद्धोजनजातम् ? अथ तस्यैवं वदतोभिक्षोः परो- गृहस्थो हस्तं वा मात्रं लघुभाजनं वा दीं वा भाजनं वा शीतोदकविकटेन अप्कायेन वा उष्णोदकविकटेन अत्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन वा उत्क्षालयेद वा प्रधानयेद्वा, स भिक्षुः पूर्वमेव आलोचयेत् प्रक्षाल्यमानं हस्तादिकं तच्च निवारयेद् यथा भो आयुष्मन्! इति वा भगिनि! इति वा मा एतत् त्वं हस्तं वा ४ शीतोदकविकटेन वा २ उत्क्षालय वा २, अभिकाङ्क्षसे मह्यं दातुंएवमेव देहि, अथ तस्यैवं वदतो भिक्षोः परो गृहस्थो हस्तं वा शीतोदकविकटेन वा २ उत्क्षाल्य प्रधाव्य आहृत्य दद्यात, तथाप्रकारेण पुरःकर्मकेण हस्तेन वा ४ अशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात् - नो पुरःकर्मकेण किन्तु कुतोऽप्यनुष्ठानात् तथाप्रकारेण उदकाइँण गलद्विन्दुना सस्निग्धेन शीतोदकस्तिमितेन वा हस्तेन वा ४ अशनं वा ४ अप्रासुकं यावत् नो प्रतिग्रहीयात्। अथ पुनरेवं जानीयात् - नो उदकाण सस्निग्धेन शेषं तच्चैव हस्तेन वा ४ अशनं वा ४ दीयमानं प्रासुकं सरजस्कं इति न प्रतिगृह्णीयात्। एवं स हस्तादिः आर्द्र: सस्निग्धः एवं मृत्तिका ऊषः । हरितालः हिंगुलकं मनःशिला अंजनं लवणः ।।१।। गेरुको वर्णिका पीतमृत्तिका सेटिका सौराष्ट्रिका पिष्टम् अच्छटिततन्दुलचूर्णः कुक्कुसः उक्कुट्ठम् आर्द्रपर्णचूर्णम् इत्यादिवस्तु-संसृष्टेन हस्तादिना दीयमानं न गृह्णीयात् । अथ पुनरेवं जानीयात् - नो असंसृष्टः किन्तु तज्जातीयेनाऽऽहारादिना संसृष्टः, तथाप्रकारेण संसृष्टेन हस्तेन वा ४ अशनं वा ४ प्रासुकं यावत् प्रतिगृह्णीयात् ।।३३।।
भाचारागसूत्रम्
२०