Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 31
________________ वा आमार्जयन सकृत् शोधयन् वा प्रमार्जयन असकृत् शोधयन् वा अवतारयन् वा अपवर्तयन् वा अग्निजीवान् हिंस्यात् । अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतुः, एतत् कारणम्, अयम् उपदेशः, यत् तथाप्रकारम् अशनं वा ४ अग्निनिक्षिप्तम् अप्रासुकमिति नो प्रतिगृह्णीयात्, एतद् भिक्षोः सामग्र्यम् ||३६ ।। प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ।। ___ अथ पिण्डैषणाऽध्ययने सप्तमोद्देशकः अथ सप्तमः समारभ्यते, इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना, तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति से भिक्खू वा २ से जं. असणं वा खंसि रा थंभंसि वा मंचंसि वा मालंसि वा पासायंसिवाहम्मियतलंसिवा अन्नयरंसिवातहप्पगारंसि अंतलिक्खजायंसि उवनिक्खिते सियातहप्पगारं मालोह असणंवा ४ अफासयं नो., केवली व्या-आयाणमेयं अस्संजए भिक्खुपटियाए पीठं वा फलगंवा निस्सेणिंवा उबूहलं वा आहट्ट उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज्ज वा पवविज्ज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरूंवा उदरं वासीसंवा अन्नयरं वा कायंसिइंवियजातं लूसिज्ज वा पाणाणिवा ४ अभिहणिज्ज वा वित्तासिज्ज वालेसिज्ज वा संघसिज्ज वा संघट्टिज्जवा परियाविज्ज वा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संतेनो पजिगाहिज्जा।से भिक्खूबा २ जाव समाणेसेजं. असणं वा ४ कुट्टियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुज्जिय अवउज्जिय ओहरिय आहट्ट वलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पटिगाहिज्जा ।। सूत्र-३७।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ स्कन्धे अर्धप्राकारे वा स्तम्भे वा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते ऊर्ध्वस्थाने उपनिक्षिप्तं स्यात्, तथाप्रकारं मालापहृतम् अशनं वा ४ अप्रासुकमिति नो प्रतिगृह्णीयात्। केवली यात - आदानमेतत्, असंयतो भिक्षुप्रतिज्ञया पीठं वा फलकं वा निश्रेणिं वा उदूखलं वा आहृत्य उच्छ्रित्य ऊर्ध्वं व्यवस्थाप्य आरोहेत्, स तत्र आरोहन प्रचलेद् वा प्रपतेद् वा, स तत्र प्रचलन् वा २ हस्तं वा पादं वा बाहुं वा ऊरुं वा उदरं वा शीर्ष वा अन्यतरद्वा काये इन्द्रियजातं लूषयेत् विराधयेद वा प्राणिनो वा ४ अभिहन्याद् वा वित्रासयेद् वा लेषयेत् संश्लेषं वा कुर्याद वा संघर्षयेद् वा संघट्टेद वा परितापयेद् वा क्लामयेद् वा स्थानात् स्थानं संक्रामयेद् वा, तद् तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ यावत् सन् यत्पुनर्जानीयात् - अशनं वा ४ कोष्ठिकातो वा कोलेज्जातः अधोवृत्तखाताकाराद मृन्मयभाजनाद् वा असंयतो भिक्षुप्रतिज्ञया उत्कुब्जीभूय अपकुब्जीभूय अवहृत्य तिरश्चीनो भूत्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात् ।।३७।। आचाराङ्गसूत्रम् २२

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146