________________
निःशझ न संभवति, व्याधिविशेषो वा कश्चित् संभवेद इति दर्शयति- अलसको हस्तपादादिस्तम्भः श्वयथुर्वा विसूचिका वा छर्दी वा उदाधेत, अन्यतरद्वा तस्य दुःखं रोग आतङ्कः समुत्पद्येत तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वा असंयतः करुणप्रतिज्ञया कारुण्येन भक्त्या वा तदभिक्षोर्गात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वाऽभ्यञ्ज्यात् वाम्रक्षयेद्वा स्नानेन वा कल्केन वा लोध्रेण वा वर्णकेन वा चूर्णेन वा पोन वाऽऽघर्षयेद् वा प्रघर्षयेद्वा उदलेद्वा उद्वर्तयेद्वा ततश्च शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेद्वा प्रक्षालयेद्वा स्नापयेद्वा सिझेद्वा दारुणा - काष्ठेन वा दारुपरिणाम दारूणां परिणाम - संघर्ष कृत्वा अग्निकायम् उज्ज्वालयेद्वा प्रज्वालयेद्वा उज्वाल्य वा प्रज्वाल्य वा कायम् आतापयेद् वा प्रतापयेद्वा । अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं वा ३ चेतयेत् कुर्यादिति ।।६७।।
अन्यच्च
आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स, इह खल गाहावई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचंतिवारुभति वा उहवितिवा, अह भिक्खूणं उच्चावयंमणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतुवामावाअक्कोसंतुजावमा वा उदविंतु, अह भिक्खूणं पुन्बो. जंतहप्पगारे सा. नो ठाणं वा ३ चेइज्जा ।।सूत्र-६८।।
आदानमेतत् कर्मोपादानमेत भिक्षोः सागारिके प्रतिश्रये संवसतो बहवः प्रत्यपायाः संभवन्ति, तथाहि - इह इत्थंभूते प्रतिश्रये खलु गृहपतिर्वा यावत् कर्मकरी वाऽन्योन्यमाक्रोशन्ति वा पचन्ति वा रुन्धन्ति वा उपद्रवन्ति वा, तथा च कुर्वतो दृष्ट्वा अथ भिक्षुः उच्चावचं मनो न्यञ्छेत् कुर्यात् तथाहि - अन्योन्यमाक्रोशन्तु वा इति अवचं मा वाऽऽक्रोशन्तु इति उच्चं यावद् मा वा उपद्रवन्तु। अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे सागारिके प्रतिश्रये नैव स्थानं वा ३ चेतयेत् कुर्यादिति ||६८।।
अपि च -
आयाणमेयं भिक्खुस्स गाहावईहिं सद्धिं संवसमाणस्स, इह खलु गाहाबई अप्पणो सयट्ठाए अगणिकायं उज्जालिज्ज वापज्जालिज्ज वा विज्झविज्ज वा, अह भिक्खूउच्चावयं मणं नियंछिज्जा, एए खलु अगणिकायं उ. वा २ मा वा उ. पज्जालिंतु वा मा वा प., विज्झवितु वा मा वा वि., अह भिक्खूणं पु. जं तहप्पगारे उ. नो ठाणं वा ३ चेहज्जा सूत्र-६९।।
आदानमेतत् कर्मोपादानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह इत्थंभूते प्रतिश्रये खलु गृहपतिः स्वार्थं अग्निकायम् उज्ज्वालयेद्वा, प्रज्वालयेद्वा, विध्यापयेद्वा, अथ भिक्षुः उच्चावचं मनो न्यञ्छेत् कुर्यात् तथाहि - एते खलु अग्निकायम् उज्ज्वालयन्तु, प्रज्वालयन्तु वा मा वा उज्ज्वालयन्तु वा प्रज्वालयन्तु वा, विध्यापयन्तु वा मा वा विध्यापयन्तु, अथ भिक्षुणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत् तथाप्रकारे प्रतिश्रये नैव स्थानं वा ३ चेतयेत् कुर्यादिति ।।६९।। अपि च -
आचारागसूत्रम्
१