________________
११ कपित्थपानकं वा १२ मातुलिङ्गपानकं वा १३ मृद्वीकापानकं द्राक्षापानकं वा १४ दाडिमपानकं वा १५ खर्जूरपानकं वा १६ नालिकेरपानकं वा १७ करीरपानकं वा १८ कोलपानकं बदरपानकं वा १९ आमलकपानकं वा २० चिञ्चापानकम् अम्बिलिकापानकं वा २१ अन्यतरत् वा तथाप्रकारं पानकजातं सास्थिकं सकणुकं त्वगाद्यवयवेन सह सबीजकं असंयतः भिक्षुप्रतिज्ञया छब्बकेन वंशत्वग्निष्पादितेन वा दूष्येण वस्त्रेण वा वालनिष्पन्नेन चालनकेन वा आपीड्य परिपीड्य परिस्राव्य आहृत्य दद्यात्, तथाप्रकारं पानकजातम् अप्रासुकं लाभे सति नो प्रतिह्णीयात् । ते चामी उद्गमदोषाः - आधाकर्म १ उद्देशिकम् २ पूतिकर्म ३ मिश्रम् ४ स्थापना ५ प्राभृतिका ६ प्रादुष्करणम् ७ क्रीतम् ८ साध्वर्थं यदन्यस्मादुच्छिन्नकं गृह्यते तत्प्रामित्यं ९ परिवर्तितम् १० आहृतम् ११ उद्भिन्नम् १२ मालापहृतम् १३ आच्छेद्यम् १४ अनिसृष्टम् १५ अध्यवपूरकम् १६ ।। तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयात् ||४३||
पुनरपि भक्तपानविशेषमधिकृत्याह -
सेभिक्खू बा. २ आगंतारेसु वा आरामागारेसु वा गाहाबईगिहेसु वा परियाबसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुच्छिए गिद्धे गठिए अज्झोववन्ने अहो गंधो २ नो गंधमाघाइज्जा ।। सूत्र - ४४ ।।
स भिक्षुर्वा २ आगन्त्रगारेषु पत्तनाद् बहिर्गृहेषु यत्र पथिकादय आगत्याऽऽगत्य तिष्ठन्ति वा आरामागारेषु वा गृहपतिगृहेषु वा पर्यावसथेषु मठेषु वा अन्नगन्धान् वा पानगन्धान् वा आघ्राय २ स तत्र आस्वादप्रतिज्ञया मूर्च्छितो गृद्धो ग्रथितः अध्युपपन्नः सन् 'अहो ! गन्ध' इत्येवमादरवान् सन् न गन्धं जिघ्रेत् ।।४४।।
पुनरप्याहारमधिकृत्याह -
से भिक्खू वा २ से जं. सालुयं वा विरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासुयं नो पडिगाहिज्जा १ । से भिक्खू वा २ जाब से जं पुण जाणिज्जा पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं बा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थपरिणयं अफासुयं नो पडिगाहिज्जा २ । से भिक्खू वा जाव से जं पुण पलंबजायं जाणिज्जा, तंजहा - अंबपलंबं वा अंबाडगपलंबे बा तालपलंबं वा झिज्झिरिपलंबं वा सुरहिपलंबं वा सल्लइपलंबं वा अन्नयरं तहप्पगारं पलंबजाये आमगं असत्थपरिणयं अफासुयं नो पडिगाहिज्जा ३ । से भिक्खू वा २ जाब से जं पुण पबालजायं जाणिज्जा, तंजहा- आसोट्टुपवालं वा निग्गोहपवालं वा पिलुंखुपवालं वा. निपूरपवालं वा सल्लइपवालं वा अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं अफासुयं जाव नो पडिगाहिज्जा ४ । से भिक्खू वा जाव से जं पुण सरजुयजायं जाणिज्जा,
आचाराङ्गसूत्रम्
२६