Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 44
________________ कारणवशादप्रासुकं वा ततः संयत रागद्वेषाकरणेन एव भुञ्जीत वा पिबेद्वा । अत्रैतत्सूत्राज्ञैव प्रमाणमिति । यच्च न शक्नोति भोक्तुं वा पातुं वा साधर्मिकास्तत्र वसन्ति सांभोगिकाः समनोज्ञा अपरिहारिका अदूरगताः, तेभ्योऽनुप्रदातव्यं स्यात्, नो यत्र साधर्मिकास्तत्र यथैव बहुपर्यापन्नं क्रियते तथैव कर्तव्यं स्यात्, एवं खलु भिक्षोः सामग्र्यमिति ।।५९।। ।। प्रथमस्य दशमोद्देशकः समाप्तः ।। ।। अथ पिण्डैषणायां एकादशमोद्देशकः ।। अधुनैकादशः समारभ्यते, इहानन्तरोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, तदिहापि विशेषतः स एवोच्यते - भिक्खागा नामेगे एवमाहंसु - समाणे वा बसमाणे वा गामाणुगामं वा दूइज्जमाणे मणुन्नं भोयणजायं लभित्ता से भिक्खू गिला, से हंवह णं तस्साहरह, से य भिक्खू नो भुंजिज्जा तुमं चेवणं भुंजिज्जासि, से एगइओ भोक्खामित्तिकट्ट पलिउंचिय २ आलोइज्जा, तंजहा इमे पिंडे इमे लोए इमे तित्ते इमे कजुयए इमे कसाए इमे अंबिले इमे महुरे, नो खलु इत्तो किंचि गिलाणस्स सयइत्ति माइट्ठाणं संफासे, नो एवं करिज्जा, तहाठियं आलोइज्जा जहाठियं गिलाणस्स सयइत्ति, तं. तित्तयं तित्तए त्ति वा कजुयं कडुअं अंबिलं अंबिलं कसायं कसायं महुरं महरंति वा । ।सूत्र - ६० ॥ भिक्षाकाः साधवो नाम एके एवमाहुः समानान् असंभोगिकान् वा वसतः अन्यतो वा ग्रामादेः समागतान् वा ग्रामानुग्रामं द्रवतः विहरमानान् अन्यसाधून् किं कृत्वा ? मनोज्ञं भोजनजातं लब्ध्वा अथ कदाचिद् उक्तपूर्वेषु कश्चिच्च भिक्षुग्लयति तदर्थं, एतद् आहारजातं गृह्णीत तस्य ग्लानस्य आहरत नयत-प्रयच्छत, स च भिक्षुश्चेन्न भुञ्ज्यात् त्वमेव भुङ्क्ष्व, एवं भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वा तत्राध्युपपन्नः सन् स अहं एकाकी भोक्ष्ये इति कृत्वा मनोज्ञं गोपयित्वा २ आलोकयेत् दर्शयेत्, तद्यथा-अयं पिण्डः, किन्तु अयं रूक्षः, अयं तिक्तः, अयं कटुः, अयं कषायः, अयं अम्लः, अयं मधुरः, न खलु अस्मात् किञ्चिद् ग्लानस्य स्वदतीति न उपकारे वर्तते इत्यर्थः मातृस्थानं संस्पृशेद् नैवं कुर्यात्, तथाऽवस्थितम् एवम् आलोकयेत् दर्शयेद् यथावस्थितं ग्लानस्य स्वदतीति, तद्यथातिक्तं तिक्त इति वा कटुं कटुरिति, कषायं कषाय इति अम्लं अम्ल इति मधुरं मधुर इति ।। ६० ।। तथा / - भिक्खागा नामेगे एवमाहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहरिज्जा, से णं नो खलु मे अंतराए आहरिस्सामि, इच्चेयाइं आयतणाई आचाराङ्गसूत्रम् ३५

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146