________________
1
प्रतिष्ठितप्रकरणम् १.
( ७ )
लोको मुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकार्यः ॥ नापायकूपे पतति प्रसर्पशास्त्रं हि दिव्या हगतींद्रियेषु ॥ ॥ ९ ॥ चूडामणिज्योतिषशास्त्रहोरा स्वरोदयाद्यैर्विविधैर्जनस्य ॥ जडीकृतस्यौषधमेतदिष्टं स्फुरचमत्काररसातिरेकम् ॥१०॥
॥ टीका ॥
विशेषेण जानातीति शाकुनशास्त्रविज्ञो मनुष्यो ममैतत्प्रयोजनं सापायं सकष्टं भविष्यति निरपायं कष्टरहितं भावि भविष्यतीति बुद्धया ज्ञानेन कृत्वा असंशयं संशयरहितं यथा स्यात्तथा तत्प्रयोजनं जहाति त्यजति । च पुनरुपक्रमते । तत्करणायोद्यतो भवतीत्यर्थः एतेन पूर्वोक्तं लक्षणमेव समर्थितम् ॥ ८ ॥ पुनस्तदेव प्रपंचयन्नाह ॥ लोक इति ॥ लोको जनः प्रसर्पन्नितस्ततो गच्छन्नपायकूपे कष्टावटे न पतति । कीदृशो लोको विज्ञात समस्त कार्य इति विज्ञातं विशेषेण अवगतं समस्तं सकार्यं येन स तथा केन अमुना शास्त्रेण कीदृशेन शकुनसंज्ञकेनेनि शकुन इति संज्ञाभिधानं यस्य स तथा हि यस्मात्कारणादतींद्रियेष्वर्थेषु शास्त्रं दिव्या दृग्वर्तते । यथा दिव्यदृशा देवः सर्व पश्यति तथा तेनेत्यर्थः ॥ ९ ॥ चूडामणीति ॥ एतच्छास्त्रमौषधमिष्टं वांछितं । कस्य जनस्य कीदृशस्य जडीकृतस्य जडतां प्रापितस्येत्यर्थः । कैः चूडामणिज्योतिषशास्त्रहो।स्वरोदयाद्यैस्तत्र चूडामणिग्रंथविशेषः । ज्योतिषशास्त्रं संहितादि । होरा जातकादि । स्वरोदयो महेश्वरकृतो ग्रंथः एतत्प्रभृतिभिरित्यर्थः । कीदृशेर्विषमैरर्थतो न तु सुत्रतः । कीदृशं स्फुरचमत्काररसातिरेकं स्फुरन्प्रकटीभवन् चमत्कारलक्षणो रसस्तस्यातिरेकः आधिक्यं
॥ भाषा ॥
हितं होयगो, कष्टरहित होयगो, या बुद्धिकर शकुनतें संदेह रहित होय, कार्यकूं त्याग करै, फिर वा कार्यके करवेके अर्थ उद्योगकरै ॥ ८ ॥ लोकइति ॥ शाकुन है संज्ञा जाकी ऐसो ये शास्त्र ताकरके हुये जो ज्ञान ताकरके जाना है समग्र कार्य जाने ऐसो मनुष्य है सो इतउतमें डोलत फिरत कष्टरूपी कुंआ नहीं पडैहै क्यों जो इंद्रियनकरके नहीं है ऐसे कार्य में शास्त्रही दिव्यदृष्टि तैसेही मनुष्यशास्त्ररूपी दिव्यदृष्टिकरके देखे हैं ॥ ग्रंथविशेषहै. और ज्योतिषशास्त्र जो संहितादिक,
नहीं देखवेमें आवैहै और सुनवेमें वर्ते है जैसे दिव्यदृष्टिकरके देवता संपूर्ण देखे है ९ ॥ चूडामणीति ॥ चूडामणिये कोई और होरा जो जातकादिक, और स्त्ररोदय जो
Aho! Shrutgyanam