Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 129
________________ १३ ग्रन्थः ] आख्यातशक्तिवादः। ११५ न्वेति, फलमात्रं वा अर्थः, जनकत्वन्तु संसर्गमर्यादया लभ्यतइति केचित् , तदसत्, ग्रामं गच्छति त्यजतीत्यादौ द्वितीयादितः फलसामान्यलाभेऽपि नियतसंयोग-विभागाद्यलाभेन फलविशेषावच्छिन्नव्यापारस्यैव धात्वर्थत्वात् । इतरथा त्यजि-गमिप्रभृतदेकदेशे चाधेयत्वे निरूपितस्वसंबन्धेन । प्रकृत्यर्थोऽन्वेति इति कस्यचिन्मतं निराकृतम् । एकदेशान्वयप्रसङ्गेन लाघवानुरोधेन चाह-फलमात्रमिति फलत्वविशिष्टमात्रमित्यर्थः । फलत्वं च कार्यत्वम् । संसर्गमर्यादयेति । फलधात्वर्थयोः संसर्गविधयेत्यर्थः । अत्र केचित्-फलमात्रस्य कर्मषष्ठ्यर्थत्वे वृत्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकत्वनये पाको न तेमनस्येति व्यवहारानपपत्तिः, जनकतासंबन्धस्य तृत्त्यनियामकत्वात्, सत्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वनयेऽपि तदभावस्य केवलान्वयित्वनियमेन तेमनीयपाकेऽपि न तेमनस्येति व्यवहारापत्तिः एवं फलमात्रस्य द्वितीयार्थत्वेऽपि यदि कर्मजसंयोगानधिकरणद्रव्यं प्रसिद्ध, तदा तत्रामुं न गच्छतीति प्रयोगानुपपत्तिः, तत्कर्मकगमनस्याप्रसिद्धना तदाश्रयत्वा. भावस्य तत्र प्रत्येतुमशक्यत्वात् । जनकतासंबन्धस्याभावप्रतियोगितानवच्छेदकनया गमनत्वावच्छेदेन द्वितीयार्थस्य तनिष्टसंयोगस्य तेन संबन्धेनाभावप्रत्ययासंभवात् , तस्याभावप्रतियोगितावच्छेदकत्वे तदभावस्य केवलान्वयित्वनियमेन गमनकर्मण्यपि देशे अमुं न गच्छतीति प्रयोगप्रसङ्गः, गमनत्वावच्छेदेन जनक. तासंबन्धेन तनिष्टसंयोगाभावस्य सत्त्वात् । तस्मात् फलजनकत्वं खण्डशः फलं जनकत्वं वा द्वितीयादेरर्थः । नचैवमपि रूपं न गच्छतीति प्रयोगानुपपत्तिः, तनिष्ठसंयोगाप्रसिद्धेरिति वाच्यम् । फलजनकत्ववदाधेयत्वस्यापि द्वितीयावर्थतया संयोगत्वावच्छेदेन रूपाधेयत्वाभावस्यैव तत्र प्रत्ययात, रूपं न गच्छति रस इत्यादौ चाकाशं न पश्यत्यन्ध इत्यादाविव नमर्थस्य वारद्वयमन्वय इत्याहुः। । तदसत् । लाघवात् द्वितीयादेः संयोगावात्मके फले शक्ताबुदाहृतस्थले संयोगजनकत्वादी लक्षणाभ्युपगमात्, वृत्यनियामकसंबन्धावच्छिन्नप्रतियोगिताकाभावमात्रस्य केवलान्वयित्वे मानाभावाचेति ध्येयम् । फलसामान्यलाभेऽपीति फलत्वरूपेण फललाभेऽपीत्यर्थः । नियतसंयोग-विभागाधलाभेनेति । संयोगत्व-विभागत्वादिविशिष्ट अतिवमादिकं विना संयोगत्वविभापत्वादिविशिष्टस्य लाभासंभवेनेत्यर्थः । फलविशेषेति संयोगत्वविभागत्वादिविशिष्टेत्यर्थः । धात्वर्थत्वात् गम-त्यजादिधात्वर्थत्वात् । द्वितीयादेश्चाधेयत्वमर्थः स च धात्वर्थैकदेशे संयोगादावन्वेति । न च विशिष्य

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238