Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 198
________________ १८४ वादार्थसंग्रहः [४ भागः कर्त-कर्मणी लकारवाच्ये, चैत्रः पचति पच्यते तण्डुल इति सामानाधिकरण्यानुरोधात्, अन्यथा पचतीत्यत्रापि कर्तरि तृतीया पच्यत इत्यत्र कमणि द्वितीया स्यात् तयोरनभिहिताधिकारीयत्वात् त्यादि । तत्रैव दूषणान्तरमाह-धर्माति । द्वितीये वह्यादावपि व्यभिचारमाहतद्वथधिकरणेति, यत्नव्यधिकरणेत्यर्थः । अथ चैत्रत्वे सति यो यदा यादृशव्यापारवानिति वक्तव्यमित्याह-चैतन्येति शब्दाचैत्रत्वाद्यप्रतीतावपि प्रकारान्तरेणोपस्थितिस्तु न नियता। वर्तमानयत्नवत्त्वप्रतीतिस्तु नियतेति भावः । यद्वा-व्यापारानुवृत्तेरेतावत्पर्यन्तं यत्नस्य वर्तमानत्वप्रतीतौ बाधकम् । धर्मीत्यादिकस्तु चित्रत्वादी शुद्धयत्नवत्त्वबोधोऽपि न सम्भवतीत्येतत्पराभिन्नो ग्रन्थः । अतएव तत्र केवलयत्नपदमेव श्रूयत इति । तत्र शोभनः पचतीत्यादौ । स्वमते बाधकमुद्धर्तुमाह-तदित्यादि । अतएव अदृष्टजनककृतेर्जनकत्वे प्रमाणसद्भावे वा । अदृष्टाद्वारकत्वस्य स्वजनकीभूतादृष्टाजनकत्वस्य । त्वयापीति । पाकजनकादृष्टजनककृतिमादायातिप्रसङ्गस्योभयमतसाम्यादिति भावः । नवीनमतमाह-यत्नेति । सिद्धपाकविषयकासिद्धतत्फलोद्देश्यककृतिमादाय पचतीति प्रयोगापत्त्याह-जनकत्वं वेति । अत्र जनकत्वं फलोपधाम, तच्च चेष्टादिद्वारकम् । तेन न स्वरूपयोग्यपुरुषान्तरीयकृतिमादायातिप्रसङ्गः । अतएव ईश्वरो गच्छति पचतीद्यप्रयोगः (१)। तादृशजनकताविशेषः संसर्ग आकांक्षाज्ञानभां......तेन योग्यताभ्रमदशायां पुनरिष्टापत्तिरेव । ईश्वरकृतिव्यावृत्तं कृतिविशेषणत्वं शक्यतावच्छेदकमिति केचित् ॥ ४ ॥ (न्यायवा०) वैयाकरणमतमुपस्थापयति-कर्तृकर्मणीति । सामाना. धिकरण्याभिन्नाभ्यां धर्माभ्यामेकर्मियोधकत्वं, तच्च नामाख्यातस्य कर्तृत्वेन कर्तृबोधकं विना अनुपपन्नमिति भावः । ईशसामानाधिकरण्यं ययसिद्ध तदाह-अन्यथेति । आख्यातेनानभिहिते कर्तरीत्यर्थः । तयोस्तृतीयाद्वितीययोः । अविशिष्टत्वाम् कर्माख्यातेनापि कृत्यनाभिधानात् । तथा च कृत्यनभिधानमपि न तृतीयानियामकम् । कर्माल्यातस्थळे तृतीयानापत्तेरिति भावः । इदं प्राची मतेन । स्वमते कर्माख्यास्य कलवाचकरवं वक्ष्यति । कर्तृक गतसहयामिधाना

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238