Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२२०
वादार्थसंग्रहः
[४ भागः गाद्यनुकूलपूर्वसंयोगादिमति निश्चलादावपि विहगे त्यजतीत्यादेः प्रयोगस्य प्रसङ्गाच ॥ १६ ॥
तत्र तत्र तत्तत्फलानुकूलतत्तव्यापारविशेष एव धात्वर्थः । सर्वत्र धात्वाश्रयत्वमेव कर्तृत्वं संख्यावर्तव्यापार आख्यातेनोपस्थाप्यते इत्युक्तौ न दोषः, सामान्यशब्दस्य विशेषपरवाह, तथाप्याकाशे गमनमिति प्रयोगापत्तिः। इतरसंयोगस्य तत्रापि सत्त्वादित्याहुः, तञ्चिन्त्यम् । अत्रापि लाघवादाख्यातस्य यत्ने शक्तिरिति दूषणमित्यन्यसिद्धोऽपि वह्निसंयोगो विकृत्युत्पादककाले पचतीति प्रयोगः स्यात् । एवं पाक इत्यादिस्थले घनादीनामनेकेषां शक्तिकल्पनमस्मिन्मते दूपणमित्यपरे । एतेन फलधात्वर्थों यत्नस्तु लाघवादाख्यातार्थ इत्यपि मतं निरस्तम् ॥ १६ ॥
[रामकृ०] केचित्तु-ननु शंखशक्तिपक्षे व्यवच्छेदसामान्य एव शक्तौ कथं व्यवच्छेदविशेषलाभस्तत्राह.-नील इति । यथा अभावमात्रशक्तेन नञपदेन समभिव्याहारविशेषलाभादभावविशेषबोधस्तथाऽन्यत्वादिमात्रशक्तादप्येवकारात् सममिव्याहारविशेषात् पार्थान्यत्वादिलाभ इत्यर्थ इत्याहुः । तत्र नीलविशेषणानुसरणवैयापत्तेः । नन्वेकपदोपात्तानां कथं परस्परमन्वयस्तत्राह--समानं चेति । ननु सर्वत्र व्यापारस्य प्रत्ययार्थत्वे संयुज्यते इत्यत्र गच्छतीत्यतोऽविशेषात् कथं न कर्मप्रयोगस्तत्राह-धात्वर्थेति । व्यापारविरहिणि क्रियाविरहिणि । ननु तत्रापि न व्यापारसामान्याभावः, ततस्तदवच्छेदेन निबिडसंयोगान्तराभावादिरूपप्रतिबन्धकस्यैव सत्त्वादित्यत आह-संयोगवत्वेति । इदमुपलक्षणम् । व्यापारकाले संयुज्यते......त्यप्रतीतेश्चेत्यपि बोध्यम् । अन्यत्र घञादेव्यापारवाचित्वेऽपि संयोग इत्यादौ न तथा इत्याह-संयोग इत्यादावित्यादिना । ननु सार्वत्रिकयत्नानुभवः संदिग्धः कादाचित्कस्तु आनुमानिको मानसो वा शाब्द एव लक्षणया भविष्यतीत्यत आह–फलेति । नन्वसाधारणानुकूलताविशेष एव संसो भविष्यतीत्यत आह--विभागेति । नासंयुक्तस्य विभाग इति पूर्वसंयोगस्यासाधारण्येवानुकूळतेति ॥ १६ ॥
गुरुमतमाह-तत्र तत्रेति । आख्यातमाह-संख्येति । क्वचिदिति । नश्यतीत्यादौ नाशाश्रयत्वमर्थ इति। तत्र तत्रेति । व्यापारत्वस्य गुरुत्वं रथगमना
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238