Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२१८
वादार्थसंग्रहः
[ ४ भाग:
व्यापार निष्ठं च तृतीयादिनाऽभिधीयते । एवं च तण्डुलं पचति चैत्र इत्यस्य तण्डुलवृत्तिफलविशेषजनकव्यापारवांचैत्रः, मैत्रेण पच्यते तण्डुल इत्यस्य मैत्रनिष्ठ व्यापारजन्य फलविशेषशाली तण्डुल इत्यर्थः । फलव्यापारयोर्विशेषण- विशेष्यभावभेदादेव कर्तृकर्मप्रत्ययव्यवहारः ।
"
वस्तुतस्त्वाख्यातस्येव तृतीयाया अपि व्यापार एवार्थः । कर्माख्यातस्य च धात्वर्थफलनिरूपितमधिकरणत्वं, कर्मकृत आश्रयः कर्तृकृतश्च व्यापाराश्रयः कर्मकर्तृ सामानाधिकरण्यानुरोधात् । जानातीत्यादिप्रयोगे तु पूर्वोक्तैव रीतिरनुसर्तव्या ।
चैत्रेण पच्यते पक्क इत्यादौ सुबर्ध एव व्यापारे वर्तमानत्वाद्यन्वयः । पचमानः पक्कवानित्यादौ पुनरनायत्या पदार्थतावच्छेदक एव व्यापारे तदन्वयः ।
ननु सहयाकालातिरिक्ता विभक्त्यर्थस्वव्यापारस्य धात्वर्थे प्रकारतया भागमव्युत्पथमतो वस्तुतस्त्विति । मैत्रेण पच्यते इत्यत्र व्यापारस्तृतीयार्थः, फले धात्वर्थे, स चाभयत्वे आख्यातार्थे तच तंदुले अन्वेतीति एतत्कल्पे कर्माख्यातस्य फले न शतिरिति । धात्वर्थनिरूपितमिति निरूपितत्वसम्बन्धेन धात्वर्थस्याधिकरणत्वे | अम्बवचनायेदम् । अधिकरणत्वमात्रमर्थ इति बोध्यम् । पूर्वोक्तवेति । घर्ट जानातीत्यादौ विषयत्वं द्वितीयार्थः, कर्मत्वं तत्र भाक्तमिति ।
नबु पारस्याख्यातार्थत्वाभावे कुत्र वर्तमानश्वान्वयोऽतः सुबर्थेति न चैवमसमानपदोपात्ते व्यापारे वर्तमानत्वान्वयेऽतिप्रसङ्गः, फलबोधकधातुसमभिव्याहारे कमरूपातजन्य वर्तमानत्वबोधे च तृतीयाजन्यव्यापारोपस्थितेर्हेतुस्वादित्याहुः । दोष इत्यत आह- अन्ययोगेति, अतिप्रसक्तत्वात् । अन्ययोगवत्यपि विविध मावा दिसच्चादप्रसिद्धिः । यत्किञ्चित्प्रतियोगिकान्ययोगस्य सर्वत्र सच्चा दिति शेषः ।
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238