Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२१६
वादार्थसंग्रहः [ ४ भागः घटं जानाति, इच्छति कुरुते, चैत्रः (मैत्रः)। मैत्रेण ज्ञायते इष्यते, क्रियते घट इत्यादौ सविषयकपदा
र्थाभिधायिधातुयोगे कर्मप्रत्ययेन यथायथं विषयित्वं विषयत्वं च कर्तृतिडा स्वाश्रयत्वं तृतीयया चाधेयत्वं बोध्यते ॥ १४ ॥ ___ अन्वयबोधे त्वयं विशेष:-यदेकत्र कर्तयोश्रयत्वं तत्र क्रिया तत्र विषयत्वं तत्र कर्मविशेषणत्वम् । अन्यत्र कर्मणि विषयता तत्र क्रिया तत्राधेयत्वं तत्र च कर्तेति । ज्ञातो ज्ञाता नष्ट इत्यादौ कर्तृकर्मकृतां विषयाश्रय-प्रतियोगिबोधकत्वम् । यतत इत्यादौ यत्यादिनोपस्थिते यत्ने विषयित्वेन नान्वया, किन्तूद्देश्यत्वेन पदस्वाभाव्यात् । अत एवाभुञानेपि भोजनाय यतते इत्यादयः प्रयोगाः ॥ १५ ॥ त्याहुः । यथायथमिति । द्वितीयाया विषयित्वमाख्यातेन विषयत्वमि. त्यर्थः । अत्र पच्यते तन्दुल इत्यादौ तन्दुलादेरेव परत्वप्रतीतिर्भावनान्वयबोध इवाख्यातोपस्थाप्यपरत्वे विशेषणतया बोधे प्रथमान्तजन्योपस्थितिहेतुः, फलबलात् । प्रथमान्तोपस्थाप्यस्यापि तथात्वमिति । अत्र च पुष्पवन्तादि. पदवदेकोचारणान्तर्भावेन शक्तिर्बोध्या । अन्यथा परप्तमवेतस्थायोग्यतया ऽनन्वयेऽपि स्वात्मानं गच्छतीति प्रयोगापत्तेः ॥ १४ ॥
___ एकत्र कर्तृस्थले । आश्रयत्वमित्यादेविशेषणमित्यनेनान्वयः । ज्ञात इत्यनेन विषयः, ज्ञातव्यनेनामयः, नष्ट इत्यनेन प्रतियोगिळध्यते इति बोध्यम् । धर्मिवाचकत्वं कृतामभिप्रेत्याह-कर्मकर्तृकृतामिति । सविषयाभिधायिधातुयोग इति सामान्यत उक्तेः । अपवादमाह-यतत इत्यादि । करोतीत्यादिविवरणायाह-यत्यादिनेति । आदिना यस्यतीत्यादिसङ्ग्रहः । यतिधातोर्शाने लक्षणायां विषयत्वेनान्वयादाह-यत्न इति । ननु स्पृहावत्सविषयत्वबोध एव चतुर्थी स्यादतोऽत एवेति । भुनाने तु न विलक्षणोदेश्यत्वे. नान्वयादित्यपि बोध्यम् । जनकयात्तप्रयोजकत्वमेव चतुर्श बोध्यते । अतएवाभुजाने भोजनाय यतत इत्यादिरित्याहुः । उद्देश्यत्वेनेति । ताति. रिक्त स्वरूपविशेषो वेत्यन्यदेतत् । अत एव उद्देश्यत्वेनान्वयादेव । अन्यथा भोजनं करोतीतिवद्रोजनकाल एव भोजनाय यतत इत्यपि स्यात् ॥१५॥
Loading... Page Navigation 1 ... 228 229 230 231 232 233 234 235 236 237 238