Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ]
व्याख्यातशक्तित्रादः ।
२१५
*भूमिं प्रयाति विहगो विजहाति महीरुहं, न तु स्वात्मानमित्याद्यनुरोधात्, क्रियान्वयि परसमवेतत्वमपि कर्मप्रत्ययार्थः । इयांस्तु विशेषो यत्परत्व सुपा प्रकृत्यर्थापेक्षिकं तिङादिना च स्वार्थफलायापेक्षिकं प्रत्याय्यते ॥ १३ ॥
( न्यायवा० ) भूमिं प्रयातीति । भूमिसंयोगस्य भूमाविव विहगेऽपि वृते भूमि प्रयातीतिवत् विहगो विहगं प्रयातीति वारणाय कर्मप्रत्ययस्य परसमवेतस्त्रमर्थ इत्यर्थः । विजहातीति । विभागस्याप्युभयनिष्टत्वात्तथा बोध्यम् । परत्वं भिन्नत्वरूपमेवार्थः । समवेतत्वं संसर्गः । तथा च ग्राम इयत्र द्वितीयार्थं आधेयत्वं भिन्नं च तदुभयं क्रियान्वयि तथा सति ग्रामाधेया ग्रामभिन्नवृत्तिर्या ग्रामभिनीया क्रिया तदनुकूलकृतिमानित्यर्थः । नचैवं यत्र विटप विहगोभयज उत्तरसंयोगस्तत्र विहगस्यापि परसमवेतक्रिया जन्यत्वात् कर्म स्थादिति वाच्यम्, इष्टापत्तेः, तत्रोभयोरेव कर्मस्वात् । नचैवं तत्र विगो विहगं गच्छतीति स्थात् । विहगभिन्नसमवेता या क्रिया तदनुकूलकृते विहगे भावेन तत्पदात्तादृशप्रतीतेरभावादिति । न च यत्र रथाकर्षणादिना रयमभिमुखं सम्पादयन् रथं गच्छति चैत्रस्तत्र चैत्रं गच्छतीति स्थादिति वाच्यम्, तादृशरथ क्रियानुकूक व्यावृत्तानुकूलेत्यस्य संसर्गताया वित्रक्षितत्वात् । अत्र द्वितीया-प्रकृत्यर्थतावच्छेदकं यत्तदवच्छिन्नरूपं परत्वं बोध्यम् । अन्यथा विहगेऽपि विगस्य व्यासज्यवृत्ति-धर्मावच्छिन्न प्रतियोगिताक-भेदसत्त्वादुक्तदोषः स्यात् । न चैवं प्रमेयतन्दुलं पचतीत्यत्र प्रमेयतन्दुलस्वावच्छिन्नभेदाप्रसिद्धिः । प्रमेयघटो नास्तीति प्रकारस्यानुसरणीयस्वादिति ।
न चात्र ग्रामतात्पर्येण द्रव्यं गच्छति चैत्र इति प्रयोगः, तत्र द्रव्यत्वावच्छिन्नभेदस्य गमनवत्यसम्भवः, तत्र द्रव्यपदस्य द्रव्यविशेषे लाक्षणिकत्वात् । परत्वं यदि प्रकृत्यर्थापेक्षितं सर्वत्र तदा चैत्रेण स्वात्मा गम्यत इत्यपि स्यादत इयांस्त्विति । स्वार्थफलाश्रयेति । स्वार्थफल प्रकारकान्वयबोध विशेष्यापेक्षिकमित्यर्थः ॥ १३ ॥
( न्यायवा० ) क्वचित्सविषयक धातुयोगेऽपि नान्तरीयके शर्कराभोजनादौ शर्कराभोजनं कुरुत इत्यादौ द्वितीयाया जनकत्वे लक्षणा, न विषयियमि
* 'भूमिं प्रयाति' इत्यारभ्य षोडशांकांतर्गत ः 'स्वत्वस्याननुगमाच्छ क्यानन्त्यं ' इत्यन्तस्य ग्रन्थस्य रामकृष्णनिर्मिता व्याख्या स्रस्तेति तां विचिन्वन्तो वयं सखेदं विज्ञापयामो विदुषः ।
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238