Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२१३
१३ प्रन्थः । आख्यातशक्तिवादः । प्रत्ययाः । तत्र च द्वितीययाधेयत्वमभिधीयते तच्चाकांक्षावैचित्र्याद्धात्वर्थतावच्छेदकेऽपि फलेऽन्वेति, अत एव चास्याः पदार्थान्विताधेयत्वबोधकसप्तमीतो भेदः । अस्तु वा कर्माख्यातस्येव द्वितीयाया अपि तयाऽवच्छेदकस्वं कल्प्यते । तत एव फलविशेषलाभ इत्याच्याहुः । ननु अनु. गतरूपेण सकर्मकत्वानिर्वचने को दोषः अतस्तादृशेति । तादृशधातुयोगे सकर्मधातुयोगे तच्चेति । अन्यथानुपपत्तेरेवैकदेशान्वयबोधः कल्प्यत इति भावः । इत एवैकदेशान्वयबोधजनकत्वादेव सप्तम्यर्थस्त्वाधेयता घटादौ पदार्थ एवान्वेतीस्यर्थः।
ननु तत्रेतरपदार्थान्वयबोधे वृत्तिजन्यतद्विशेष्यकोपस्थितिहेतुरिति कथमेकदे-- शान्धयः, अत एकदेशान्वयेऽप्युपपत्तिमाह-अस्तु वेति । नन्वेवमपि द्वितीयासप्तम्योः पर्यायता स्यात् । अतोऽस्तु वेत्यन्ये । तथा फले उत्तरदशादेशसंयो. गादौ (?) जनकतादिसम्बन्धेन ग्रामादिप्रकारः तच क्रियायाम् । तथा च ग्राम गच्छतीत्यादेमीयफलजनक क्रियानुकूलकृतिमानित्यर्थः ।
ननु फलावच्छिन्नव्यापारो धात्वर्थः, द्वितीयार्थश्च फलम् , तथा च ग्रामदृत्तिफलजनिका क्रियेत्यन्वयपर्यवसितः । नचायं......सम्भवी, उद्देश्यतावच्छेदकविधेयतावच्छेदकयोरक्यात् । न च फलानिका क्रिया ग्रामीयफलज. निकेत्यन्वयधीः...... दण्डवान् ...क्त...दण्डवानितिवत् स्यादेवेति वाच्यम्.. प्राचीनस्तत्रापि बोधास्वीकारादत आह-स्तां वेति । ननु फलस्य द्वितीयार्थत्वविशेषरूपेण भानं न स्यात् । न च फलविशेष एव द्वितीयार्थः । संयोगादिनानाफलशक्तौ गौरवात् । लाघवेनाधेय स्वस्यैव द्वितीयार्थवादतः स्तां वेति । धात्वर्थस्तु फलविशेष एवेति न दोष इति केचित् । न चात्र मते आत्मनेपदस्य कृतः फलवाचकता धात्वर्थफलेनान्वयसम्भवादिति वाच्यम् , नामार्थधात्वर्थयोः साक्षादन्वयाभावेन तस्फलकल्पनात् । न च कृतिरेव तथास्तु तथा सति तृतीयार्थ आधेयत्वमाख्यातार्थः कृतिः । तथा च क्रियया फलस्यान्वये क्रिया. जन्यं फलविषयः चैत्रकृतिविषयस्तन्दुल इति बोधः । तथा च चैत्रजन्यकृतित्वस्य क्रियायामभानात् । तद्भानस्यानुभवसिद्धत्वात् । एवं तादृशफलशालिरूप.. कर्मस्वस्य तन्दुलेऽभानप्रसङ्गादिति भावः । न चैवं कर्मप्रत्ययस्थले फलाच्छिन्नक्रियाजन्यफलशाली तन्दुल इति धीः, न चैवं सम्भवति, फलविशिष्टक्रियायाः फलापूर्ववर्तित्वादिति वाच्यम, धातोः फलोपलक्षितक्रियावाचकत्वेन तथा फलजननसम्भवादिति ।
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238