Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 226
________________ २१२ वादार्थसंग्रहः [४ भागः पत्योः कर्मत्वस्य पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे स्पन्देः पूर्वापरदेशयोः प्रसङ्गात् । फलावच्छिन्नव्यापारबोधकत्वादेव च धातूनां सकर्मकत्वव्यवहारः । भाक्तस्तु जानात्यादेस्तादृशधातुयोग एव च कर्मगौरवं स्वीकरणीयमेव, अन्यथा शक्तिविषयस्थबुद्धिस्थतावच्छेदकत्वादेरपि भानं स्यात्, अन्यथा मत्सरपदादावपि शक्यतावच्छेदकतावच्छेदकभानं स्यात् । किञ्च ईदृशेन धर्मेण शक्यतावच्छेदकाननुगम्यशक्यैक्ये सैन्धवादा. वप्यन्यतरत्वेन तदनुगमानानार्थता न स्यात् । अतो दृष्टान्तविलये दान्तिकस्यापि विलयः । न च द्वितीयादेविशिष्यसंयोगादिवाचकत्वे गम्यादिधातुविशेष्ययोग एव संयोगावितात्पर्यग्राहको वाच्यः, तथा च त्यागतातात्पर्येण ग्रामं गच्छवीत्युक्ते संयोगरूपफलप्रत्ययापत्तिरिति वाच्यम्, गमिधातुयोगस्य संयोगतात्पर्यवाहकत्वस्यौत्सर्गिकत्वात् । क्वचित्प्रकारान्तरेण प्रकरणादिना विभागतात्पर्यग्रहस्यापि सम्भवात् । तत्र धातोविभागावच्छिन्नस्पन्दे लाक्षणिकत्वम् । शुद्धस्पन्दबोधकगमिधातुयोगस्यैव वा संयोगतात्पर्यग्राहकत्वमि. त्यभिप्रेत्य प्रकारान्तरेण फलस्य धात्वर्थतावच्छेदकत्वं व्युत्पादयति-अपि चेत्यादिना । ननु द्वितीयाया आधेयत्वबोधने तस्य फलेऽन्वये क्रियाजन्यफल. शालिस्वरूपं कर्मत्वं न भातमेवातः कर्मत्वमेवान्यादृशमाह-धात्वर्थतावच्छे केति । गमिपत्योरिति । गमनजन्यं फलमुत्तरसंयोगो यथा ग्रामे तथा विभागरूपं पूर्वदेशेऽपीत्यर्थः । एवं पतनस्यापि त्यजेरिति उत्तरदेशेऽपि तजन्यसंयोगसत्त्वादिस्यर्थः । स्वमते तु संयोगादिरेव धात्वर्थतावच्छेदकः स्पन्देश्व तदभावादेव न सकर्मताव्यवहारः । पात्वर्यतावच्छेदकफलशालित्वस्य कर्मत्वे हेत्वन्तरमाइ-फलावच्छिन्नेति । यद्वा-वस्तुतस्यजिगम्यादिधातूपस्थाप्यक्रियाया:परपूर्वदेशयोः कर्मत्वमस्त्येव । अतस्तामेव क्रियामादाय कदाचित्तरं त्यजति खगः कदाचित्तरोभूमि गच्छति खग इति प्रयोगः, अतो हेत्वन्तरमाह-फलावच्छिन्नेति । न चाननुगतगम्या. दितत्तहातूनामेव सकर्मकन्यवहारविषयत्वम् , सम्भवतोऽनुगमस्थ त्यागा. योगात् । एवं धातोः शुद्धव्यापारवाचित्वे त्यजिगम्यादेः पर्यायतापत्तिः स्मर्तज्या। तथा च सकर्मकत्वव्यवहारप्रयोजकस्यैव कर्मतात्वमिति भावः । जानातीत्यादौ तदभावेऽपि सकर्मकत्वव्यवहारमुपपादयति-भाक्तस्त्विति । द्वितीयाया आधेयत्वे शक्तिः कल्प्यते लाघवात् । न तु संयोगादिफलेषु फलेषु नानाशक्तिः गम्यादिधातोश्च क्रियाया विशेषेऽवश्यक्लायको संयोगादेविषय

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238