Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ अन्थः] बाख्यातशक्तिवादः।
धातोरथैः फलमनुकूलव्यापारो व्यापारमात्रं वा, आख्यातस्यजन्यजनकभावः संसर्गमर्यादया लभ्यः। लडादितिङाद्यर्थो वर्तमानत्वादीष्टसाधनत्वादिकमेकपदोत्तरत्वप्रत्यासत्या तत्रैवान्वेति ।।
भावप्रत्ययस्य घनादेरनुकूलव्यापार एवार्थः। तेन व्यापारसत्त्वे फलानुत्पादशायां पाको भविष्यतीति न प्रयोगः। न वा व्यापारविगमे फलसत्त्वे पाको विद्यते इति । नापि घट-भूतलयोर्मियः संयोग इति वत् मिथो गमनमित्यादि।
प्रत्ययोपनीतपरसमवेतव्यापारजन्यधात्वर्थफलशालित्वं च कर्मत्वं, फलनिष्ठाधेयत्वं द्वितीयादीनां, ' (न्यायवा० ) मण्डनमतानुसारिमतमाह-धातोरिति । गमियत्यादीनामुत्तरसंयोगादिरूपफलवाचकत्वान पर्यायतापत्तिः। आख्यातजन्यवर्तमानबोधे आरूयातजन्यव्यापारोपस्थितिईतुरित्येक पदोपात्तत्वमित्यस्याशयः।
ननु फलस्य धास्वर्थत्वे फलसत्वे व्यापारविगमेऽपि पाकस्तिष्ठतीत्यादि स्थादत आह-भावप्रत्ययस्येति । अनुकूलव्यापार इति । अत्रापि व्यापार एव शक्यः अनुकूलत्वं संसर्ग इति बोध्यम् । मिथो गमनमिति । गमधा. त्वर्थस्योत्तरसंयोगस्य द्विष्ठत्वेऽपि तदनुकूल व्यापार स्यातत्त्वादिति तन्मते फलस्य धात्वर्थत्वात् ।
धात्वर्थजन्यफलशालित्वं धास्वर्थतावच्छेदकफलशालित्वं कर्मत्वमुभयमप्यनुपपनमत आह-प्रत्ययोपनीतेति । प्रत्ययोपनीतो यो व्यापारः परसमवेतः तजन्यं धात्वर्थरूपफलं तच्छालित्वमित्यर्थः । चैत्रभित्रसमवेतं यद्रामादि तजन्यं यत्फलं धात्वर्थः तच्छालित्वं कर्तरि चैत्रादावप्यस्ति, अतः प्रत्ययोपनीतेति वस्तुकथनम् । द्वितीयादिना परसमवेतत्वम् । आख्यातार्थव्यापरे आ. ख्यातेन तृतीयाथें तद्बोध्यते। परत्वं पूर्ववद्बोध्यम् । परसमवेतव्यापारजन्यं तद्धंसतत्प्रत्यक्षशालिनिकर्मत्ववारणाय धात्वर्थेति । मैत्रनिष्ठेति । निष्ठत्वं तृतीयार्थ व्यापरः, आश्रयत्वं चाख्यातार्थः, व्यापारः फले, तच्चाश्रयत्वे, तब तंडुले, प्रकार इति व्यापारान्वितो धात्वर्थः फलं साक्षादेवान्वितं तण्डले प्रकार इत्यनेन ।
१९
Loading... Page Navigation 1 ... 229 230 231 232 233 234 235 236 237 238