Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२१४ वादार्थसंग्रहः
[४ भागः फलमर्थः। स्यादा फलव्यापारौ पृथगेव धात्वर्थों, विशिष्टस्तु अन्वयबललभ्यः ॥ १२ ॥
यद्वा-अस्मिन् कल्पे द्वितीयाया आधेयत्वमिव कर्माख्यातस्याश्रयत्वमेवार्थः । गमनं धात्वर्थान्तरे फले तच्चाश्रयत्वे तच ग्रामादौ प्रकारः । गम्यते ग्राम इत्यादौ गमनजन्यफलाश्रयस्ववान् ग्राम इति बोधः । कर्मप्रत्ययान्तगम्यादिधातुजन्यस्पन्दप्रकारकबोधे तदर्थसंयोगोपस्थितेहेतुत्वं, कर्मप्रत्ययान्तगम्यादिधातुजन्यसंयोगादिप्रकारकबोधे तदर्थस्पन्दोपस्थिते हेतुत्वकल्पनानातिप्रसङ्गः । न चास्मिन् कल्पे सप्तमीतो द्वितीयाया अभेदः, धात्वर्थविशेष्यकाधेयत्वबोधकत्वात् । द्वितीयायाः सप्तम्यर्थस्य नामार्थेऽप्यन्वयात् । नच तन्दुलस्य पाक इत्यत्र षष्ठीस्मारित द्वितीयार्थस्य पाकेऽप्यन्वयात् । मैवम्, तत्र पध्यर्थस्य भानादिति ।
यद्वा-द्वितीयार्थाधेयत्वबोधे सुभिन्नसार्थकप्रत्ययप्रकृतिजन्योपस्थितहेतुत्वं कल्प्यते, न तु सप्तम्यर्थबोधे भूतले देवदत्त इत्यादिप्रयोगादिति विशेष इस्याहुः । इतरा स्मारिता या अर्थस्य धात्वर्थे सेवान्वयात् इत्यनेनैव भेद इत्यन्ये ॥१२॥
(रामकृ०) फलावच्छिन्नव्यापारस्य धात्वर्थत्वे प्राचीनसमति दर्शयति कर्मत्वविभक्त्यन्यथानुपपत्तिमपि प्रमाणयति-अपि चेत्यादिना । पूर्वस्मिन् देश इति । तत्र क्रियाजन्यविभागरूपफलसत्त्वादिति भावः । उत्तरस्मिन्निति । तत्र क्रियाजन्यसंयोगसत्वादिति भावः । स्पन्देरकर्मकत्वायोगादाह-पूर्वापरयोरिति । एकत्र ताशसंयोगस्य परत्र तादृशविभागस्य सत्त्वादिति भावः । स्वमते तु पूर्वेषु धात्वर्थतावच्छेदकं तत्तत्फलमनतिप्रसक्तमेव । उत्तरत्र तु तादृशफलमेव नास्तीति प्रसङ्गशङ्काऽपि न । फलावच्छिन्नव्यापारवाचित्वेऽन्यदप्युपष्टम्भक्रमादफलेत्यादि । ......नादेः फलाभावात् । तादृशधातुयोगे फलावच्छिन्नव्यापारवाचि धातुयोगे। अतएव स्पन्दादेन कर्मप्रत्यया इति ।
एवं चाधेयत्वमेव द्वितीयार्थः, फलस्य धातुत एव लाभादित्यभिप्रायवान् तदनुसारेणैकदेशान्वयं स्वीकुर्वन् शाब्दबोधमुपपादयति-तत्र चेति । अत एव पदार्थैकदेशान्वयाधेयत्वबोधकत्वादेव । एकदेशान्वयासहिष्णुराह-अस्तु वेति । अत्रापि पूर्वोक्तरीत्या कृदाख्यातवन्नियतसंयोगादिरूपफललाभस्तु तदवच्छिन्नव्यापारवाचित्वेन नीलघटत्वस्य शक्यतानवच्छेदकत्वेऽपि परस्परमन्वयबलादुपस्थित-नीलघटत्वावच्छिन्न प्रतियोगितालाभस्तथा प्रकृतेऽपीति भावः ॥ १२ ॥
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238