Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 224
________________ २१० - वादार्थसंग्रहः [४ भागः वेत्यन्यदेतत् । अस्तु वा बुद्धिविशेषवाचकतदादेरिव व्युत्पत्तिवशादेव प्रकृत्यर्थतावच्छेदकफलतच्छालिवाचकाख्यात-कृतोरपि विशेषरूपेण बो धकत्वम् ॥ ११ ॥ स्वर्गसाधनत्वादिप्रकारकसंशयो नेत्यत आह-अस्तु वेति । यद्वा-ननु विशेषबाचकत्व विधेर्न वितरसमभिव्याहारादिष्टविशेषवाचकस्वम् , तथा सति स्वर्गकामो दधि न भुञ्जीतेत्यादिन स्यात् । भोजने इष्टसाधनत्वसामान्याभावस्थास्वात् (१) । तथा च दृष्टान्तासङ्गतिः । एवं ग्रामी गम्यते न तु गृहमिति न स्यात् । गमनजन्यफलसामान्याभावस्य गृहेऽसस्वादत आह-अस्तु वेति ।। अयमर्थः-गृहे चोऽस्ति न वेति प्रभे सोऽस्तीत्युत्तरात् सन्देहनिवृत्तेः विशेषरूपेणैव तदादेर्वाचकत्वं, न तु बुद्धिस्थत्वेन । तथा च घटस्वादीनां पृथक् शक्यतावच्छेदको बहुशक्तिकल्पनमित्यैकशक्तिर्वाच्या तथाच घटत्वादिकमेव शक्यतावच्छेदकं तेषामनुगमकं बुद्धिस्थतावच्छेदक वं तथा चैकैव शक्तिः । शक्यतावच्छेदकस्येव शक्यतावच्छेदकतावच्छेदकस्याप्यनुगमाच्छक्त्यैक्यमिति मतेनाह-बुद्धिविशेषवाचकेति। यद्यप्यन्यत्र शक्यतावच्छेदकतावच्छेदकमपि भासते। प्रकृते तद्भाने विशेषरूपेण तद्बोधकता न स्यात्तथापि बुद्धिस्थतावच्छेबकवृत्तिशक्तमित्याकारः शक्तिग्रहः । पदार्थोपस्थितौ तु बुद्धिस्थतावच्छेदकं न भासते तदंशे तद्वोधकविरहादिति भावः । तथा च तदादिवत्तत्प्रकृत्यर्थतावच्छेदकत्वविशिष्टे शक्तिमहात् यद्धर्मविशिष्टसंयोगादिफलं प्रकृत्यर्थतावच्छेदकं बदमविशिष्टमेवाख्यातादिर्बोधयतीत्यर्थः ॥ ११ ॥ (रामकृ० ) चैत्रो गच्छतीत्युदाहरणस्य चैत्रो गन्तेत्यनेन साम्याहूषयितुं केषांचिन्मवमुपन्यस्यति-एवं चेति । एवं च फलस्यात्मनेपदादिना वाच्यत्वे च । व्यापारविशेषो गमनादिक्रियारूप: । ग्रामस्येत्यत्र षष्ठया एव कर्मत्वमर्थ इति । एकदेशापरीहाराय शक्यतावच्छेदकलाघवाय चाह-फलमानं वेति । मलाभादित्यन्तं फलविशेषेत्यादौ हेतुः । फललाभान्यलाभेऽपि फलत्वरूपेण फललाभेऽपि । नियतेति, प्रतिनियतेत्यर्थः । इतरथा......क्रियाया एव वाच्यत्वे पर्यायेति । उभयत्रापि क्रियारूपशक्याविशेषात् त्यागगमनपदप्रभृतीनामप्येकार्थत्वं स्यादिति भावः । १ उपस्थापकत्वमिति पाठ। २ बुद्धिविषयेतीतरटीकासु ।

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238