Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२०८ - वादार्थसंग्रहः
[४ भागः एवं च गतो ग्रामो गम्यत इत्यादौ फलस्य कृदात्मनेपदाभ्यामेव लाभात् लाघवाद्धातोरनन्यलभ्यव्यापारविशेषमात्रवाचकत्वस्थितौ ग्रामं गच्छति ग्रामस्य गन्तेत्यादौ द्वितीयादेः फलजनकत्वलक्षणं कर्मत्वमर्थः । फले च प्रातिपदिकार्थोऽधिकरणत्वेनान च कृतः सामान्यतस्तेन तेन रूपेण वा कर्तरि शक्तिः । शतृशानचादौ तु आदेशीभूतलटः स्मरणं वर्तमानवांशबोधे एव तन्त्रम् । यत्नबोधकाख्यात. जन्यवर्तमानावबोधे आख्यातजन्ययत्नोपस्थितेहेतुत्वकल्पनात् । अन्यथा चैत्रः पचतीत्यादौ चैत्रे वर्तमानत्वान्वयापत्तेरित्याहुः ॥ १० ॥
(रामकृ.) भावकृतोऽपीति । तथात्वे च पाचक इत्यादौ पाक- . कृतिरित्यनुभवः स्यात् । स्याच्च व्यापारस्य वर्तमानदशायां कृतेरतीतत्वे पाको नष्ट इति भाव: । धातुत्वादीति । धातूना बहुत्वात्तद्घटितान्यतरत्वरूपधातुत्वमपेक्ष्यैव ततः स्वल्पतरतिङ्घटितान्यतरत्वरूपाख्यातत्वस्य लघुत्वं. सुतरां च धातूत्तरप्रत्ययत्वापेक्षयेति भावः । इदं चाभ्युपगमेन । वस्तुतो धातूत्तरप्रत्ययत्वमाख्यातत्वं वा न शक्ततावच्छेदकं किन्तु तिप्त्वादिकमेवेत्युक्तमेव प्रागिति ।
एतदस्वरसेनैव वा । यदपीति । कृतां विशिष्यशक्तिकल्पनेऽपि कृतित्वमेव शक्यतावच्छेदकम् , लाघवात् । कृतिप्रकारकबोधस्तु लक्षणयैतन्मताभिप्राय इति । प्रतिबन्धान दूषयति-यत इति । अस्तु वा गवादिपदानामित्यादौ हेतुविनित्यादिगौरवादित्यन्तम् । विशिष्टेति । आकाशादिपदस्यापि उक्तयुक्तेः शक्ते शक्तिः शब्दविशिष्टे लक्षणाऽस्त्वित्यर्थः । अथ केवले विशेषणे स्वारसिकप्रयोगाभाव एव केवलविशेषणशक्तो बाधकस्तदा प्रकृतेऽपि तुल्यमित्याहकेवलेत्यादि । एतत्प्रतिबन्धा आख्यातस्यापि कृतिविलोपप्रसङ्गस्तु ध्येयः ॥१०॥
(न्यायवा०) फलावच्छिन्ने व्यापारे धातोर्न शक्तिः किन्तु रहे व्यापारे इति मतं दूषयितुं एवंचेत्यारभ्य केचिदित्यन्तेन तन्मतमुपन्यस्यति । एवं फलस्यास्मनेपदसमर्थने व्यापारविशेषो गमनादिः । तथाच गम्यादिधातुनोत्तरदेश. संयोगाववच्छिन्ना क्रिया न बोध्यते किन्तु तत्तक्रियैवेत्यर्थः । मात्रपदास्फलव्यवच्छेदः। द्वितीयादेरिति । मादिपदादामस्येव्यत्र षष्ट्या अनुकर्षः । इदै चादेशे शक्तिरिति मते। वस्तुतः षष्ठया द्वितीया स्मार्यते। आदेशे शक्तो गौरवार द्वितीयादेरित्यादिपदादात्मनेपदपरिग्रह इत्यन्ये ।
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238