Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ]
व्याख्यातशक्तिवादः ।
वादस्तु गवादिपदानां गोत्वविशिष्टं शक्यं, विशि ष्टान्तराणां तु शक्यत्वं विलीयेत । केवलविशेषणे स्वारसिकप्रयोग विरहस्तुल्य एवेति ॥ १० ॥
स्यादित्यर्थः । ननु तर्हि केवलेऽपि भूत भूतपदप्रयोगः स्यात् अत आहकेवलेति । तत्रापि केवलकृतौ न प्रयोग इति तुल्यम् । यत्र यत्न विशेष्यकबोधे तात्पर्येण पक्ता गुण इत्युक्तं तत्र भावना पक्तेत्यत्र लक्षणा, परेषां शस्यैव बोध इति चेत् भूतं गुण इत्यत्रापि तुल्यम् । अत एवोक्तं स्वारसिकेति । इतरानुपपत्तिप्रसन्धानाकालीन इति तदर्थः । एवं यत्र यत्रानुपपत्तिप्रतिसन्धानादेव बोधस्तत्र लघुनोऽपि शक्यतावच्छेदकत्वमिति भावः ।
कश्चित्तु विशिष्यतराणामिति । महदादीनां महत्पदवाच्यता न स्यादित्यर्थ इत्याह, तन्त्र, महत्पदस्य शुक्लादिपदं तुल्यतया महत्व एवं शक्तिः । तत्परिमाणं चतुर्विधम्, अणु महद्दीर्घं ह्रस्वं चेति भाष्यकृता विभजनात् । यत्तु लक्षणा आश्रयत्वविशिष्टे वाच्या तर्हि कृतिप्रकारेण धर्मिबोधो न स्यात् किन्तु तदाश्रयत्वेनेत्यनुभवविरोधादिति, तन्त्र, कृतिप्रकारेण धर्मिणि लक्षणासम्भवात् ।
अत्र केचित्-एवं सत्याख्यातेऽपि धर्मिणि शक्तिः स्यात् । न च तत्र केवलकृतौ प्रयोगान्न साम्यम् । अत्रापि चैत्रः पक्तेति केवलकृतौ प्रयोगात् । न चाभेदान्वयाननुभवः स्यात् इष्टत्वात्, अन्यथाख्यातेऽपि तौल्यात् । न चात्राभेदान्वयधीविरुद्ध विभक्तिराहित्य सत्त्वादभेदान्वय एव स्यात्, कृत्या सममभेदान्वये बाधात् । अन्यथा पाकस्य स्तोकं पचतीत्यत्रेव तण्डुलं पचतीत्यत्रापि तण्डुलेनाभेदान्वयः स्यात् । तस्मात्कृतः कृतौ शक्तिः भोक्ता तृप्यतीत्यादौ तृचः कर्तरि लक्षणा । चैत्रो गन्तेत्यादौ क्वचिदाश्रयतया कृतेः कचिचात्पर्यसस्त्रे लक्षणया तद्वतो भेदान्वय इति पत्रादावपि कचित्स्वरसिकप्रयोग एवास्तीति वदन्ति तन्त्र, चैत्रः पक्तेत्यत्र तृजर्थकृते वैत्रेण भेदान्वयासम्म - वात् । नामार्थयोर्भेदनान्वयबोधे विभक्त्यर्थो पस्थि तेर्हेतुत्वात् चैत्रे पक्तेति प्रयोगापत्तेश्वलत्वं आख्यातनिष्ठय व्नशक्यतावच्छेदकमितिपक्षे पचन् गच्छ. तीत्यादौ पाकादिकर्तृलाभो न स्यात्, लटः शतृज्ञानचाविति सूत्रेण तयोरादेशत्वावगमात् । आदेशे च शक्यभावात् । न च तत्र लट एव कर्तरि लक्षणम तथापि शक्त्या चैत्रे पचन्निति प्रयोगः स्यात् । न. स्यात्पचन्तं पश्यतीत्यादौ पाककर्त्रादिबोधः । लडर्थप्रकारकबोधे प्रथमान्तपदोपस्थाप्यस्वस्य तन्त्रस्वात् 4
"
Loading... Page Navigation 1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238