Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 223
________________ १३ प्रन्थः] माख्यातशक्तिवादः । २०९ न्वेति, फलमात्रं वा अर्थः। जनकत्वं तु संसर्गमर्यादया लभ्यत इति केचित् । तदसत्, ग्रामं गच्छति त्यजतीत्यादौ द्वितीयादितः फलसामान्यलाभेऽपि नियतसंयोग-विभागाद्यलाभेन फलविशेषावच्छिनव्यापारस्यैव धात्वर्थत्वात् । इतरथा त्यजि-गमिप्रभृतीनां पर्यायत्वापत्तेः । तवापि गम्यते ग्राम इत्यादौ ग्रामादेः संयोगादिफलशालित्वं कुतः प्रतीयत इति चेत्, न। तद्वच्छिन्नव्यापारवाचिधातुसमभिव्याहारादेव, यथा इष्टसाधनत्ववाचकादिधेरेव स्वर्गकामादिपदसमभिव्याहारात् स्वर्गादिजनकत्वं, प्रतीतिस्त्वि. ष्ट-फलयोरिष्टत्व-फलत्वाभ्यां स्वर्गत्व-संयोगत्वाभ्यां __ अधिकरणत्वेनेति, संसर्गभूतेनेति बोध्यम् । आधेयत्वसंसर्गेण वा बोधो बोध्यः। लाघवादाह–फलमात्रमिति, तदसत् । व्यापारविशेषमात्रवाचकरवं असत् । नियतेति। तदलाभे गृहाग्राम गच्छतो ग्रामस्येदं गमनं, न तु गृहस्येति न स्यात् । गृहवृत्तिफलजनकत्वसामान्याभावस्य तत्रासरवात् । ननु त्यजिगम्यादेरेव विभागसंयोगरूपफलतात्पर्य ग्राहकत्वं, प्रत्ययस्तु द्वितीयादितः फलत्वेनैवेत्यत इतरथेति । यद्वा-फलत्वं नानुगतमिति संयोगत्वादिविशिष्टे द्वितीयादिशक्तिः, तत्र संयोगादिबोधे गम्यादिस्तात्पर्य ग्राहक इत्यत इतरथेति । इतरथा धातोापारवाचित्वे पर्यायतापत्तेः । गमनस्यागयोरेकार्थता स्यादित्यर्थः । प्रभृतिपदात् भुजिस्पन्दादेः परिग्रहः । ननु फलावच्छिनव्यापारवाचित्वेऽपि फलविशेषकाभस्तव मते कथं स्यात्, फलस्व व्यापारविशेषणत्वेन कर्मणि तदन्वयात् । आख्यातस्य फलसामान्यवाचकत्वादित्याशङ्कते-तवापीति । ग्रामं गच्छतीत्यादौ धात्वर्यतावच्छेदकसंयोगे द्वितीयार्थस्थाधेयत्वस्यान्वयधीसम्भवात्तत्रोकम् । तद्वच्छिन्नेति । विशेष्यसंयोगारवच्छिन्नेत्यर्थः । तत्फलस्य ग्रामादावन्वयेऽपि तत्समभिव्याहारेण फलविशेषयोधकत्वं द्वितीयादेरित्यर्थः । इतरसमभिव्याहारेण सामान्यवाचकस्थापि विशेष्यबोधकत्वे दृष्टान्तमाह-यथेष्टेति । नन्वेवमिष्टसाधनत्वमिव ज्ञेयाभिधेयकृतिविषयसाधनत्वमपि शक्यं स्यात् विशेषणसम मिव्याहाराद्विशेषबोधोपपत्तिरिति स्वर्गसाधनस्वादिकमेव शक्यमतः

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238