Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 219
________________ २०५ १३ ग्रन्थः] आख्यातशक्तिवादः। (रामकृ०) कृत्सु व्यवस्थामाह-चैत्र इत्यादिना । चैत्रो गन्तेत्यादौ समानविभक्तिकयोरभेदान्वयस्य व्युत्पन्नत्वादिति भावः । कर्मण्यपि तथा द्रढयति-गत इति । लिङ्गविशेषेणापि सामानाधिकरण्यं द्रढयति-मित्रेति । ननु लाघवादाख्यातवत् कृतामपि कृतावेव शक्तिरस्तु । अभेदसंसर्गबोधश्च संदिग्धः, चैत्रो गच्छतीत्यत्रेव चैत्रो गन्तेत्यादावपि कृदयस्य चैत्रादिना भेदेनैवान्वयोऽस्तु, प्रातिपदिकार्थयोर्भेदेनान्वयबोधे प्रकारीभूतेत्यादिव्युत्पत्तौ तु प्रातिपदिकत्वमर्थवदधातुरपत्यय: प्रातिपदिकमिति सूत्रस्वरससिद्धं कृदयावृत्तमेव वक्तव्यम्, लिङ्गैक्यं तु साधुत्वार्थकमन्यथाप्युपपत्स्यत इत्यत आह-भोक्तेति । कृत: कृतिवाचकत्वेऽत्र भोजनकृतिस्तृप्त्याश्रय इति बोध: स्यात् । न चैवमनुभवविरोधादिति लाघवेन कृतौ शक्तिः कृतिविशिष्ट प्रकृते लक्षणेत्यत्र च ग्रन्थकृतैव वक्ष्यत इति । ___ कर्तृशक्तत्वे एकदेशान्वयं बाधकमुद्धर्तुमाह-चैत्रस्येत्यादि । नतृपदस्य पुत्रपुत्रशक्तस्य पुत्रेणैकदेशेन यथा षष्ठयर्थान्वयो यथा वा भेदपृथक्त्वादि-गुणविशिष्टशक्तानां अन्यपृथगादिशब्दानां एकदेशेन भेदादिना पञ्चम्यर्थस्तथाऽत्रापीत्यर्थः । तथैव एकदेशेनैव । अस्तु वेति । पाचक इत्यादौ जनककृत्याश्रयत्वं कृतिमात्रं पाककर्ता । नतेत्यत्र स्वाश्रयपुत्रपुत्रत्वं स्वाश्रयपुत्र एव वा जन्यतारूपषष्ठयर्थनप्त्रोरन्य इत्यादौ च स्वाश्रयभेदवत्त्वं स्वाश्रयभेद एव वाऽनुयोगितारूपपञ्चम्यर्थान्वयः । एवं रीत्या परत्रापि सम्बन्धोऽस्त्वित्यर्थः । इदमत्रावधेयम्-पुत्रत्वस्य व्याप्तिघटितजन्यत्वघटितत्वाद्वयाप्तेश्च व्यापकव्याप्योभयघटितत्वाच्चैत्रस्य पुत्र इतिवदत्रापि नानार्थनप्तृपदतात्पर्यग्राहकत्वमेव चैत्रस्येत्यस्येति कैकदेशान्वयसम्भावना । अन्यथा चैत्रस्य पुत्र इत्येवं कथं नोद्भावितमिति। कृदाख्यातसाधारणमभिहितानभिहितत्वविवेकमाह-फलादीति । आदिना विषयत्वादिपरिग्रहः । कृत्यादीत्यादिना आश्रयत्वादिसङ्ग्रहः । ननु विशिष्ट शक्तस्य कृतः कथं कृतिफलाद्यभिधायकत्वमत आह-कृनेति ॥ ९॥ १८

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238