Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 220
________________ २०६ वादार्थसंग्रहः . [४ भागः यत्तु धातूत्तरप्रत्ययत्वेनैव कृतौ शक्तिः, पाचकादिपदे तु सामानाधिकरण्यानुरोधात् कृतिविशिष्टे लक्षणेति, तन्न, भावकृतोऽपि कृतिवाचकतापत्तेः, घातुत्वादिघटितात्तस्मादाख्यातत्वस्यैव लघुत्वाच । यदपि कर्तृकृतोऽपि कृतौ शक्तिः कृतिविशिष्टे तु लक्षणैवेति, तदप्यसत् यतो विनावच्छेदकरूपं शक्यत्वासंभवात्, गोत्वत्वादिना शक्तौ चातिगौर(न्यायवा० ) कर्मप्रत्ययेऽपि कृतौ शक्तिरस्त्येव समभिहारविशेषाभावान तदोष इत्याशयेन तदुपेक्ष्याह-भावकृत इति । तथा च कृतिनाशकाले इदानीं पाक इति धीन स्यादिति भावः । ननु तत्र प्रत्ययार्थे न तात्पर्यम् , स्थलकालावच्छेदेन वा वर्तमानत्वं भासते अतो धातुत्वादीति । केचित्तु भावकृतोऽपि कृतिवाचकत्वमास्तां किं न च्छिन्नम्। कृतिनाशकाल इदानीं पाक इति बुद्धेरप्रमावमेवात आह-धातुत्वादीत्याहुः। धातुत्वादीत्यादिंपदात् प्रत्ययत्वादिसकदः। तथा च धातुत्वप्रत्ययत्वोभयघटित-तदपेक्षया आख्यातत्वस्यैव लघुत्वादित्ययः। प्रत्ययत्व-घटकान्यतरत्व विशिष्ट तावड्दापेक्षया तदन्यभेदघटितारूपातत्वस्य लघुत्वाञ्चलत्वस्य शक्यतावच्छेदकत्वेऽतिलाघवाच कर्तृकृतः कृतौ शक्तिः पाचक इत्यादौ अभेदान्वयानुरोधाद्विशिष्ट लक्षणेति मतमाहयदपीत्यादिना । यत इति । असदित्यत्र हेर्यतो विशिष्टान्तराणां शक्यत्वं विलीयेव ततोऽसदित्यर्थः । न च शुद्धे गोत्वे शक्तिरास्ताम् , गोत्वत्वं संस्कारवशादुपस्थितं भासते लक्षणायामतिरिक्तत्वमिवेति वाच्यम् , तथा सति धर्मिणो लामो न स्यात् । आक्षेपलभ्यत्वोक्तो जातिशक्तिवादोक्तदोषापत्तेः । गोर्गोत्व. बानित्पन्क्योऽपि न स्यात् । लक्ष्यतावच्छेदकवनियतभानं च न स्यात् गोस्वत्वस्येति ध्येयम् । वस्तुतो लक्ष्यतावच्छेदकेऽपि लक्षणैव । न च तीरत्वविशिष्टबोपलं गङ्गापदलक्षणा ज्ञानकार्यतावच्छेदक इति तीरत्वांशे लक्षणां विनापि निवहि चिजन्यपदार्थोपस्थितिहेतुः, न तु तदंशेऽपि तिजन्येति न तदर्थमपि तलक्षणेति वाच्यम् । एवं घटत्वेऽपि शक्तिर्न स्यात् , कारणताकार्यताशन्यानां कारबवावच्छेदकत्वस्येव शक्तिशन्यस्यापि शक्यतावच्छेदकत्वाविरोधात् । अशक्यापि शक्यानुगमसम्भवादिति ध्येयम् । विशिष्टान्तराणामिति । विभुभूतपदानां महत्तविशेषे भूतत्वादौ शक्तिः

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238