Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 217
________________ १३ ग्रन्थः ] आख्यातशक्तिवादः । २०३ कर्मणी कृद्धाच्ये । चैत्रस्य नसा मैत्रादन्यो घटात् पृथक् परोऽपरो वेत्यादाविव पदार्थतावच्छेदकेनैव कृत्यादिना धात्वर्थान्वयः, तथैव साकांक्षत्वात्। अस्तु कृतः कर्तृवाचकत्वे स्वदेकदेशे कृतौ पाकस्य कथमन्वयोऽत आह-चैत्रस्य नप्तेति । नप्तृपदेन जन्यजन्यशरीरविशेष उपस्थाप्यते, न तु जन्यजन्यमात्रम्, चैत्रपुत्ररूपादौ नप्तृपदाप्रयोगात् । तत्र विशेष्ये शरीरे चैत्रस्येत्यन्वये चैत्रपुत्रेऽपि तथा प्रयोगः स्यादतो जन्यत्वरूपैकदेश एव चैत्रस्येत्यन्वय इत्यर्थः । ननु चैत्रजन्यजन्यत्वादिकं न नप्तपदशक्यतावच्छेदकम् , नानार्थत्वप्रसङ्गात् । न वा जन्यजन्यशरीरत्वम्, जन्यत्वस्याननुगमात् । किन्तु एवकारादीनामिव तावत्पदाथै खण्डशक्तिर्वाच्या । तथा चैकदेशान्वयोऽत आह-मैत्रादन्य इति । भदं बोध्यम्-पतृपदस्य चैत्रजन्यजन्यशरीरमर्यः । तत्र खण्डशक्तिमति चैत्रांशे शक्तिविरहात् । चैत्रो नप्तनप्वप्रिय इत्यत्र चैत्रीयनप्खलामो न स्यात् । न हि अन्यनत्रीयचैत्रो नप्तृप्रिय इति प्रयोगः । न च चैत्रस्य नप्तृपदवाच्यपदार्थेऽप्यन्वयः, तथा सति चैत्रनप्तृलाभेऽपि पुनक्षेत्रेण नप्तृप्रियत्वं नान्वितं स्यात् । स्याच नामार्ययोर्मेदान्वये व्युत्पत्तिविरोधः । तस्मानप्तृपदस्खण्डशको चत्रोऽप्यसर्भवति । तया च चैत्रमैत्रादीनां सर्वेषां शक्यत्वे गौरवं स्वीकार्यमेव । तथा चत्रबन्यजन्यत्वे मैत्रजन्यजन्यत्वे विशिष्ट एव शक्तिरस्तु, न तु खण्डशतिः। मातृपदादावप्येवम् । अतएव प्राञ्चोऽपीदमेव वर्णयंति । न च चैत्रजन्यजन्यत्वे. नोपस्थिते चैत्रस्येत्यन्बयो न स्यात् । सम्बधत्वेन तद्वानात् इति । अन्ये तु मप्तपदे अन्यत्वे खण्डशक्तिरेव । चैत्रांशे तु लक्षणैव । तेन चैत्रनप्लाभः । युगपत्तिद्वयविरोधस्तु निरस्त एवेत्याहुः । केचित्तु चैत्रो नमृप्रिय इत्यत्र चैत्रस्य नप्तृपदवाच्येऽर्थे विशेषणतया नप्तृप्रिय इत्पस्य विशेज्यतया द्विधैवान्वयः । न च नामार्थयोदेनान्वये विभक्त्यर्थोपस्थित्यपेक्षा नाम्नि च नियतान्यत्वस्यैवैतदन्यत्वस्यापि वाच्यत्वादित्याहुः। मैनादन्य इत्यवान्यपदार्थैकदेशे भेदे पंचम्यान्वयः । अन्यपदस्य स्वमते भेदविशिष्टवाचकत्वं प्राचां मते पृथक विशिष्टवाचकत्वमित्युभयथाप्येकदेशान्वयः। यदप्यन्य इत्यादौ भेदे चाश्रये च शक्तिद्वयस्वीकारे नैकदेशान्वयः, तथापि शक्तिद्वयकल्पनागौरवाद्वरं व्युत्पत्तिभेद एव कल्यत इति भावः । अन्यपदाढ़ेदप्रकारेणैव धर्मिणो भानं, नत्वाश्रयत्वादिप्रकारेण । अतएवान्यपदस्य भिन्न इत्यनेन भेदः । तथा च शक्तिद्वयकल्पनेऽपि न निर्वाह इत्यन्ये । ननु घटादन्य इत्यादावन्वयानुपपत्त्या तथास्तु । अस्तु वा तत्रापि भेदवति घट

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238