Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ]
आख्यातशक्तिवादः ।
२०१
एवं रक्तरूपदण्ड द्वितयादिनिरूपिता एका प्रकारिता रक्तदण्डो दण्डवानिति विशेष्ये विशेषणन्यायेन रक्तदण्डवानित्यादिज्ञातव्यावृत्ता रक्तदण्डवानिति विशिष्टवैशिष्टयत्रोधे तिष्ठति विशेष्ये विशेषणमित्यत्र च रक्तरूपनिरूपितमेकं दण्डनिरूपितं चैकमिति प्रकारित्वद्वयं तच्च रक्तदण्डः दण्डवानिति समूहालम्बनादव्यावृत्तम् । एवं धर्मितावच्छेदकं विशिष्टमविशिष्टं वा कृत्वा विधेयं च तादृशं कृत्वा तत्तदुभयादिनिरूपिताविलक्षणविषयताबोध्याः । तत्रैव च विधेयोद्देश्यतावच्छेदकयोः परस्परव्यत्ययेन तदुभयादिनिरूपिता एव । ततोऽन्या एताश्च विषयिताः सर्वाः प्रतिबन्ध्यप्रतिबन्धकभावाद्यनुरोधेन क्लृप्ता अनुभवारूढाश्च । ताश्च प्रतिनियतकारणप्रयोज्याः स्वयमूह्याः । एतेन साकार - वादापत्तिभीत्या सर्वत्र विशिष्टवैशिष्ट्यबोधादौ विशिष्टादिनिरूपितः संसर्ग-विशेषोऽतिरिक्तः संसर्गमर्यादया भासते, स च संसर्गविशेषो नान्यत्र संसर्गतया वा अन्यथा वा भासते इति फलबलात्कल्प्यत इत्यादि कुकल्पनमपास्तम्, विषयिताया विषयनिरूप्यत्वानभ्युपगम एव साकारवादापातात् ।
इदं त्ववधेयम् - विशिष्टवैशिष्ट्यबोधादिषु स्वीकृता विषयिताः संशयव्यावृत्ता एव कल्पन्ते । परामर्शादिकारणतायां व्याध्यादितत्तदंशावच्छिन्ननिश्चयत्वमपेक्ष्य लाघवेन तत्तन्निरूपितविषयिता एव संशयव्यावृत्ताया जनकतावच्छेदकत्वौचित्यात् । अतएवानुमानदीधितौ रक्तो दण्डो न वेति संशयानन्तरं रक्तदण्डवानिति विशिष्टवैशिष्ट्यबोधाभावः स्वीकृतो दण्डांशे निर्णयाकारो रक्तत्वांशे संशयाकारस्तु आयत एव तत्र सामग्रीसत्त्वादिति संक्षेपः ।
गवां कृष्णा सम्पन्नक्षीरा इत्यादौ च कृष्णभिन्नगो सामान्यभेदोऽभेदश्च कृष्णोपरि अभेदोपरि च प्रकृत्यर्थो गोरन्वेति । तादृशकृष्णत्वावच्छिन्नाभेदश्च सम्पन्नक्षीरकृष्णयोः सम्बन्धः । एवं च गवाभिन्न- कृष्णाकृष्णाभिन्न- गोसाम्यभिन्नसम्पन्नक्षीराभिन्ना इति बोधः । अतिप्रसङ्गश्वोक्तसम्बन्धाभ्यामेव निराकृतः । गोषु दुधमानास्वागत इत्यादौ भावसप्तमीस्थले च कालीनत्वं सप्तम्यर्थः। काल एव वा तथावृत्तित्वं संसर्गः । एवं च दुह्यमाना - भिन्न- गोकालीनागमनवानिति बोध: दुग्धास्वागत इत्यादौ चोत्तरकालीनत्वमुत्तरकाल एव वा सप्तम्यर्थ इत्यादि स्वयमूह्यम् । छत्रिणो यान्तीत्यादावजहत्स्वार्थलक्षणास्थले च यद्यपि छत्रपदे छत्राभावविशिष्टच्छत्रे लक्षणा । विशेष्यं च स्वाश्रयगमनकालीनगमनवृत्तित्वं यदि चेच्छत्र्यच्छत्रिणोर्विभिन्नदेशीय
Loading... Page Navigation 1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238