Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१९९
१३ ग्रन्थः] माख्यातशक्तिवादः। फलावच्छिन्नक्रियाया घात्वर्थत्वेन कथं क्रियाजन्यफललाभस्तेन रूपेण शक्त्यग्रहात् । नहि घटपदस्य घटत्वप्रकारकघटविशेष्यकशक्तिशाने सति जात्वपि ततो घटत्वविशेष्यघटप्रकारकज्ञानमिति भावः । __ स्वमतमुपसंहरति-तस्मादिति । इत्थं फलस्यात्मनेपदार्थत्वे । अन्यत्रेति । संख्याकालातिरिक्तस्य प्रत्ययार्थस्य प्रकृत्यर्थविशेष्यत्वेनैवान्वयस्य पचतीत्यादौ क्लप्तत्वादित्यर्थः । चैत्रस्य पाकश्चैत्रेण पक्कास्तन्दुला इत्यादौ क्लसशक्तेः । पूर्व तव कर्तृकर्मेत्यादिना । आश्रयतया कृत्यन्वयबोधः । अन्यथा कृत्यन्वयबोधे च कर्तृकर्मबोधनियामकावनियामकावुत्तौ। नवीनमते तु कर्मप्रत्ययस्थले कृतेर्बोधास्वीकारात्तत्र सम्भवतीत्याह-कर्तृकर्मेति । नातिप्रसङ्गः न चैत्रेण पचति तण्डुलः चैत्रेण पच्यते तण्डुल इत्यादिप्रयोगप्रसङ्गः । एवमेकदा कृति. फलोभयाबोधकत्वनियमाभिप्रायेणाह-नचेति । कर्मप्रत्ययस्थळे भावनान्वयात् पूर्वोक्तसंख्यान्वयनियामकं न सम्भवतीत्यतो लाघवाद्वा आह-तिमिति । तथा च. भावनान्वये यन्नियामकं तदेव संख्यान्वय इत्यर्थः। तन्दुलं पाचयति चैत्रो मैत्रेणेत्यादौ निष्ठत्वं तृतीयार्थः । तच्च णिजयेऽन्वेति । णिजर्थश्च कृतिः । एवं चत्रे तिर्थकृतिः, तदुपरि अनुकूलतासंसर्गेण णिजर्थकृतिः, तदुपरि पाको मैत्रनिष्ठत्वं च, पाकोपरिकर्मता, तदुपरि तन्दुलोऽन्वेति भिद्यते कुशूल: स्वयमेवेत्यादौ च भेदानुकूलव्यापाररूपं कर्तृत्वं भेदाश्रयत्वरूपं कर्मत्वं चैकदा कुशूलेऽन्वेति । धातुना चाकाङ्क्षामर्यादया तत्कुशूलनिष्ठाभेदवृत्तिरेव बोध्यते । किंवा तत्कुशूलकर्मकमेदत्वेनैव बोध्यत इत्यन्यदेतत् । यथोदनं पचतीत्यादावतिप्रसङ्गभङ्गाय तदोदनकर्मकापाकव्यक्तिः । तत्र चाकांक्षावैचित्यात् पाककृतिमत्कर्तृकैवोदनव्यक्ति सत इति न विभिन्नकर्तृकातिप्रसङ्गः । एवमन्य. त्राप्यूह्यम् । ___ आकाशं पच्यतीत्यादौ शशविषाणजन्य कार्मुकमित्यादौ च विशेष्ये विशेषणमित्येव प्रथमतो बोधः । आकाशं न पश्यतीत्यादौ चाकाशविषयिताश्रयज्ञानाश्रयत्वस्य तादृशचाक्षुषाश्रयत्वस्यैव वा अभावो धर्मिणि भासते । तादृशविष. यितायां प्रतियोगितावच्छेदकसम्बन्धश्च पश्यामीति विषयितानिरूपितस्वरूपसम्बन्धविशेषो व्यधिकरणः । अतो मैत्र आकाशं न पश्यतीत्यादौ मैत्रस्याकाशविषयक-चाक्षुषसत्त्वेऽपि न क्षतिरिति । यदि तु तदंशे लौकिकसन्निकर्षाजन्येऽपि दोषविशेषजशाने तन्निरूपितो रजतं पश्यामीत्यनुव्यवसायसिद्ध भाकाशनिरूपितो विषयताविशेषोऽपि स्वीकर्तव्यः । इत्थं चाकाशनिरूपित
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238