Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 212
________________ १९८ वादार्थसंग्रहः [४ भागः सुबर्थ-कृतेर्विक्तित्त्यां विशेषणत्वेनैवान्वयस्य व्युत्पनत्वात् कर्तृकर्मवच्च कृति-फलयोरप्यभिधाननियमानातिप्रसङ्गः । न वा पक्ष्यते तण्डुलो मैत्र इत्यादयः प्रयोगाः। तिडुपस्थापितायाः संख्याया भावनाया इव प्रथमान्तपदोपस्थाप्येनैवान्वयो व्युत्पन्नः॥८॥ कियाविशेषणतया भावनान्वयं व्युत्पादयति-सुबर्थेति । सवर्थस्य प्रकारतया बोधोऽस्तु कष्टेन पचतीत्यादौ काठकरणत्वादेरिव पाके चैत्रेण पक्कास्तन्दुला इज्यादाविवात्रापि व्युत्पन्न इति बोध्यम् । कर्तृकर्मवञ्चेति । यद्यपीदं तव कर्तृकर्मेत्यादिना पूर्वमेवोक्तं तथापि विषयतया कर्मणि भावनान्वयेऽतिप्रसने पूर्व समाहितम् । इदानी फलार्थकत्वमादायतामापायेति भावः । अतिप्रसङ्गो मैत्रेण पचति तन्दुल इत्यापतिप्रसङ्गः । यथा न स्वन्मते परस्मैपदस्य कर्मानभिधायित्वात्तथाऽस्मन्मतेऽपि तस्य फलानभिधायित्वं नेत्यर्थः। नवेति। यथा तव कर्तृकर्मणो कदाऽन्वयस्तथा ममापि कृतिफळयोरित्यादिपूर्वोक्त मेवेति । ___ इदं तु बोध्यम्-चैत्रः पच्यत इत्यादौ चैत्रकर्तृत्वधीवारणाय यगावसमभिव्याहृताख्यातजन्यकृत्युपस्थितेराख्यातजन्यकृतिप्रकारकबोधे हेतुत्वस्य वाच्यत्वात् तदभावादेव चैत्रः पच्यते तन्दुल इत्यादौन चैत्रादिषु कृत्यन्वयः। न त्वाख्यातजन्यकृतिबोधे कर्मत्वतात्पर्यज्ञान प्रतिबन्धकम्, गौरवात्, चैत्रेण पचति तन्दुलमित्यादौ तु प्रथमान्तपदामावादेव न चैत्रादौ कृत्यन्वय इति । ननु कर्मप्रत्ययस्थले भावनाया आख्यातलभ्यत्वे तिकुपस्थाप्यसंख्यायाः कथमन्वयो भावनान्वयित्वेनैव तदन्वयादत आह-भावनाया इवेति । तिकुपस्थाप्यसंख्यान्वयेऽपि प्रथमान्तपदोपस्थाप्यत्वं कर्मत्वायनवरुद्धत्वं तंत्रमिति भावः । न हि यत्न एव भावना तर्हि जानातीत्यादौ संख्यान्वयनियामकं न स्यात् । अतो भावनाधात्वविशेषणकमाख्यातवाच्यमेव तच फकमेव, प्रकृते तथा सति तदन्वयिनैव संख्यान्वय इति केचित् ॥ ८॥ (रामकृ०) नव्यास्त्विति । प्राचीनमतं दूषयितुं पूर्व तदनुवदतिभावनादेरित्यादिना । संख्यामात्रं वेति । नामाख्यातयोः साक्षादन्वये क्षतिविरहादिति भावः । इद चाभ्युपगमवादेन । मैत्रः पक्ष्यते इत्यादेरभावादिति । तथा वाक्यार्थः । तदपि फलमपि। तथा वाक्यार्थः। अथ फकावच्छिन्नक्रियाया धात्वर्थत्वाद्धातोरेव फललाभो भविष्यतीत्यत्राह-फलेति । विशेषणेति ।

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238