Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
२०२
वादार्थसंग्रहः । [४ भागः चैत्रो गन्ता गतो ग्रामो मित्रा पक्री गतं पुरम् । भोक्ता तृप्यति पक्कानि भुंक्ते पक्तापसार्यताम् ॥ इत्यादौ सामानाधिकरण्याद्यन्यथानुपपत्त्या कर्तृगमनवत्त्वेनैतादृशप्रयोगः तदा वैशिष्टये देशघटितं सामानाधिकरण्यमपि प्रवेश्यताम् । यत्र च छत्री एक: छत्रशून्याश्च बहवः, तत्र बहुत्वान्वयानुरोधात् छत्रविशिष्टछत्राभावे लक्षणा । वैशिष्टयं निरुक्तमेवेत्यापाततो वक्तुं शक्यते तथा छत्रिणौ द्वावच्छत्रिणौ च द्वौ तत्र कथितप्रकाराभ्यां बहुत्वान्वयो दुरुपपाद इति तन्न श्रद्धेयम् । परन्तु यथा पुष्पवन्तादिस्थले एकैकशक्त्या चन्द्रत्वसूर्यत्वाभ्यां प्रकाराभ्यां बोध्यते । शक्यतावच्छेदकता च व्यासज्यवृत्तिरिति केवल. चन्द्रत्वादिप्रकारको बोधो लक्षणयैव । तथा छत्रपदस्य केवलं छत्रत्वं शक्यता. वच्छेदकमिति शक्यतावच्छेदकमव्यासज्यवृत्ति । लक्षणा तु उभाभ्यां छत्रत्वछत्रत्वाभावत्वाभ्यामिति। लक्ष्यतावच्छेदकत्वं व्यासज्यवृत्ति । इदं चोभाभ्यां रूपाभ्यामुपस्थितमुभयथा योग्यमन्वेति । तत्र च गमनाश्रयत्वादिकं बहुत्वादिकमन्वेतीति न क्वाप्यनुपपत्तिरिति दिक् ॥ ८ ॥
(न्यायवा०) नन्वाख्यातोक्तयुक्त्या कृतामपि कृत्यादौ धर्मे शक्तिः स्यादतो धर्मिणि कृतां शक्तिमुपपादयति-चैत्र इत्यादिना । समानविभक्तिकत्वस्य विरुद्धविभक्तिराहित्यस्य वा अभेदान्वये तन्त्रत्वादिति भावः । यधपि चैत्रो दण्डी कुण्डलीत्यत्र समानविभक्तिकत्वेऽपि गुणानां च परार्थस्वादिति न्यायेन दंडिकुण्डलिनोन परस्परान्वयः, तथापीतरविशेषणत्वेन तात्पर्याविषयत्वमपि तत्र तन्त्रं बोध्यम् । कर्मस्थले त्वाह-गत इति । लिङ्गत्रयेऽप्यभेदानुभवं दृढयितुमपरलिङ्गवयमाह-मित्रेत्यादिना। चैत्रो गन्तेत्या भेदान्वयेऽप्युपपत्तिः। न च समानविभक्तिकयोभैदेनान्वयबोधो न दृष्टचरः, निपातस्थले एव दृष्टत्वादिति । अतो यत्र तथा नोपस्थितिस्तदाह- भोक्तेति । यद्वा दोषान्तरमाह-भोक्तेति । अत्र कृतः कृतिवाचकत्वे भोजनकृतिस्तृप्यतीत्यन्वयः स्यात् , सा च बाधिता, न च परम्परया कृतेरन्वयः, कर्तुरमानेऽनुभवविरोधात् । न च नियमेन पुरुष इत्यध्याहार्यम् , तथा च भोका पुरुष इत्यत्राश्रयतया कृतेरन्वय इति वाच्यम्, निर्बीजाध्याहारकल्पेन गौरवात् । पक्वानीति । धर्मे शक्को पक्वस्य तन्दुलादेर्भानं न स्यात् । धर्मे च भोजनकर्मत्वं वाधितमित्याशयः। कर्मप्रत्यये उदाहरति-पक्तेति।
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238