Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 211
________________ १३ ग्रन्थः ] आख्यातशक्तिवादः। १९७ तस्मात् फलमात्मनेपदार्थः, इत्थं च आख्यातोपस्थापिताया भावनायाः क्रियाविषयिण्याः फलेऽन्वये फलस्य क्रियाजन्यत्वं न लभ्येत भावनाविषयक्रियायाः फलेऽन्वये तिडुपस्थापितभावनायाः क्रियाविशेष्यत्वेनान्यत्रान्वयः क्लुप्तो भज्येत । तस्मात् कृत्यनभिधायकभावकर्मकृद्योगे क्लृप्सशक्तेः सुपो लब्धया भावनया विशिष्टायाः क्रियायाः फलेऽन्वयः, जन्यताभानेऽपि क्रियाजन्यफलशालित्वं तन्दुलेन प्रकारीभूतं तत्रानुभाविक तन्दुलं पचतीत्यवानापीति भावः। . . . फलस्येति । क्रियाविषयमावनाजन्यत्वमेव लभ्यते क्रियाजन्यवफलमालिवरूपकर्मत्वबोधः कर्माख्यातेन भानुमविक इति भावः । यद्यपि क्रियायाः फले भावनायां चान्वये नायं दोषः, पाकविषयकभावनाविषयपाकजन्यफलशाळीति बोधसम्भवात् । तथापि तन्दुलं पचतीत्यत्रेवात्रापि फले पाकजन्यत्वमेव भासते, न तु भावनाविषयत्वमपीत्येवं दूषणं बोध्यम् । नह भावनाविषयक्रियाजन्यत्वमेव फले भासते भावनायाः क्रियाविशेषणत्वादित्यत आह-भावनाविषयति । धात्वर्थस्य तृतीयार्थभावनाविशेष्यत्वादाहतिकुपस्थापितेति । अन्यत्रेति । पचतीत्यादौ कृतिरेव पाकविशेष्यत्वेन मासते यत्नार्थकाख्यातान्तधातुजन्यपाकप्रकारकबोधे आख्यातजन्ययलोपस्थितेहेतुत्वकल्पनात् । अतः कालो न विशेष्यत्वेन भासते पचति नश्यतीस्यादौ वर्तमानत्वादेः प्रकारतया अन्वयबोधाच । केचित्तु भाख्यातार्थप्रकारकबोधे प्रकृतिभिन्नपदजन्योपस्थितेर्हेतुत्वोकत्वात् भावनायाः पाके विशेषणतयैवान्वयः। आख्यातार्थश्च कृतिसाध्यत्वादिमिनो ग्राह्य इत्याहुः । प्रथमान्तपदानुपस्थाप्यत्वादेव क्रिया न भावनाविशेष्येति ऋजुः पन्थाः । सुपो लब्धयेति । चैत्रेण गतं मैत्रेण पक्कास्तन्दुला इत्यादौ तृतीयायाः कृतौ शक्तिः क्लृप्त्यर्थः । न च तत्र लक्षणा प्रकृतेऽपि तत्सम्मवाद । करणत्वापेक्षया कृतावेव लाघवात्तृतीयायाः शक्तिरित्यन्ये । एवं च तृतीयाजन्यकृतिप्रकारक-पाकविशेष्यकत्वबोधे धातुजन्यपाकोपस्थितेतुत्वं चैत्रेण पक्का इत्यनुरोधेन क्लुप्त मिति भावः।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238