Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ प्रन्थः] आख्यातशक्तिवादः । पाकजन्यफलशाली वा तण्डुलः प्रतीयत इति साक्षात्परम्परया भावनाया विशेष्यस्तण्डुलः, रथेन गम्यते ग्राम इत्यत्र रथनिष्ठगमनानुकूलव्यापारजन्यफल-. शाली ग्रामः प्रतीयते इति व्यापारविशेष्यो ग्राम इति ॥ ७॥
नव्यास्तु भावनादेराख्यातलभ्यत्वात् आधेयत्वमात्रं तृतीयार्थोऽस्तु संख्यामानं वा, संबन्धस्तु पचसावित्याहुः । तत्र, तथापि फले धात्वर्थे विभक्त्यर्थभावनाविशेषणकान्वयबोधस्वीकारात् । .
केचित्तु चैत्रेण पच्यत इत्यत्र कृतिस्तृतीयार्थः पाके स च फळे तथाभयत्वे तच तन्दुले प्रकारः । आश्रयत्वं त्वाख्यातार्थः । अत्रापि धातोः क्रियाफलयोः खण्डशः शक्तिरस्तीत्याहुः । ननु द्वितीयकल्पे पाकस्य कथं भावनाविशेष्यस्वम् । प्रथमान्तपदादुपस्थाप्यत्वादितिदूषणं मुख्यविशेष्यतया भावनान्वयबोधे प्रथमान्तपदोपस्थाप्यत्वमपेक्षितमित्याशयेन परिवरति-साक्षादिक मन कल्पामिप्रायेण, द्वितीयाभिप्रायेण परम्परयेति । रथनिष्ठेति अत्र तृतीयार्थों निष्ठत्वं. गमने तच्च व्यापारे स च फले तच ग्रामे प्रकार इति । फलव्यापारयोरन्वये उक्तप्रकारो बोधः ॥ ७॥
(रामकृ०) अथेत्यादिकेन कथमित्यन्तेन प्रश्नः । चेतनाचेतनयोविभिन्न एवान्वय इत्यभिप्रायेणाह-मैत्रेणेत्यादिना । कर्मप्रत्ययस्थले फलबोधोऽनुभवसिद्ध इत्यभिप्रायेण द्वितीयम् । आख्यातार्थभावनाया धात्वर्थविशेषणत्वेनाप्यन्वयस्य तैः स्वीकारादिदमुक्तम् । उभयत्रापि पक्षे निष्ठत्वं तृतीयार्थः। एवमग्रेऽपि । साक्षादिति । आद्यकल्पे साक्षात् द्वितीयकल्पे परम्परया ॥ ७ ॥
(न्यायवा०) संख्यामात्रं वेति । काख्यात इव कर्माख्यातेऽपि कृतिः चैत्रायोः सम्बन्धो व्याक्यार्थ इत्युभयत्र तदंशेन वैलक्षण्यमित्याशयेनेदम् । तथा च भावनाः परे तृतीयाप्रकृत्यर्थान्वयो नामार्थेन धात्वर्थस्यैवान्वयोऽव्युत्पन्न नत्वाख्यातार्थेनेत्याशयः (?), यद्यपि प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वं तच प्रकृत्यातिरिक्तनामार्थाविशेषेणकान्वयबोधकत्वम् । अतएव मैत्रेण पच्यते तन्दुलमिष्यत्र तन्दुलो न विशेषणतया भावनायामन्वेति । अन्यथा मैत्र इव
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238