Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 208
________________ १९४ वादार्थसंग्रहः [४ भागः ___ अथ तण्डुलं पचति चैत्रः इत्यादावाश्रयतया चैत्रोऽस्तु भावनाविशेष्यः मैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलस्तु कथं, विषयतयेति चेत्, रथेन गम्यते ग्रामः इत्यादौ सविषयकव्यापारानभिधाने का गतिः । अत्र प्राञ्चः-- मैत्रेण पच्यते तण्डुल इत्यत्र मैत्रनिष्ठपाकभावनाविषयः, मैत्रनिष्ठभावनाविषय ननु भवन्मते कर्मप्रत्ययस्थले आश्रयतया कर्तृप्रत्ययस्थले अन्यथेति वैपरीत्यमेव किं न स्यात् ? अस्माकं तु धर्मिणि शक्तिबलादेव प्रतिनियततत्तसंसर्गप्राप्तिरित्याशङ्कायां भवन्मते कर्तृकर्मशक्तावपि भवद्भिः कर्तृबोधे यन्नियामकं वक्तव्यमस्माभिरपि आश्रयतया कृतिप्रकारकबोधे तन्नियामकं वक्तव्यम् , भवद्भिश्च कर्मप्रत्ययस्थले यन्नियामकं वाच्यमस्माभिरपि, अन्यथा कृतिप्रकारकबोधे तन्नियामकं वक्तव्यम्, अन्यथा भवन्मतेऽपि पचतीत्यत्र कर्मबोधः, पच्यत इत्यत्र कर्तबोधः, पक्ष्यत इत्यत्रोभयबोधः किं न स्यादित्याशयवानाह-तवेत्यादि । तदुक्तं सामानाधिकरण्यं निराकरोति-भिन्नाभ्यामिति । अन्यादृशं तदर्थान्वयिस्वार्थकत्वादिरूपम् ॥ ६ ॥ (न्यायवा०) कर्मणि पुनरन्यथान्वयं विवृणोति-अथेत्यादिना । मैत्रेण पच्यते रथेन गम्यते इत्यादी विभिन्न एव कार्यकारणभावः । अतएव...... पाकारकूलकृतो मैत्रादिनिष्ठत्वस्यान्ये च गमने तस्य भानम् । अतएव चाये विषयत्वस्य भानं नान्त्यमित्याशयेनाह-मैत्रणेत्यादि । कर्मप्रत्यये फलानु. भवस्यानुभवसिद्धत्वादाह-मैत्रनिष्ठभावनेति । अत्र निष्ठत्वं तृतीयार्थः । सच भावनाय सत्यां कि...स च फले तप तन्दुले प्रकार इत्यन्वयबोधः (?) क्रमः । अत्र ययपि फलावच्छिनक्रियाबोधकत्वं धातोस्तथा च फलादौ कीदृशे ...कस्य कथमन्वयः । तथापीदं दूषणमग्रे एव वाच्यमिति केचित् । परे तु फलं पाकादिश्च पृथगेव पचधात्वादेरर्थः । तथाच नोक्तदोषः । नच भावनाविशेष्यकस्यैव धात्वर्यान्वयस्य पचतीत्यादौ दृष्टत्वात् कथमत्र भावनाविशेषणकपाकान्वय इति वाच्यम् , पाकस्य भावनायां तस्याः फलेऽन्वयात् । नच क्रियाजन्यत्वालामः फले क्रियायामिव फलेऽप्यन्वयेऽपि रोधात् । यत्र घटत्व. मित्यत्र प्रत्ययार्थे इतरवे साकल्ये च घटस्य प्रकारतयाऽन्वयः। तथा च चैत्र. निष्ठपाकभावनाविषयः पाकजन्यं यत्फलं तद्वान् तन्दुल इति प्राचीनमतं

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238