Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press

View full book text
Previous | Next

Page 207
________________ १३ ग्रन्थः ] आख्यातशक्तिवादः। १९३ मुद्धरति-भावनेत्यादिना । भावना चात्र संख्याकालाद्यतिरिक्त आख्यातार्थः । समानेति । अतएवैकयोगनिर्दिष्टानां सह वा प्रवृत्ति: सह वा निवृत्तिरिति प्रवादः। औचित्यादिति । तदुभयप्रकारकशाब्दबोधं प्रति एकैवानुपूर्वीप्रयोजिकेति लाघवादित्यर्थः । यद्यपि संख्यान्वयनियामकत्वकल्पनायां समानपदोपात्तान्वयित्वमपेक्ष्य समानपदोपात्तत्वमेव लध्विति पूर्वोक्तरीत्यानुपूर्वीज्ञानस्य कारणताया तन्मत एव लाघवमिति च प्रतिभाति । तथापि कृतीनामानन्त्यात्तत्र शक्यतावच्छेदकत्वकल्पनामपेक्ष्य लाघवेन कृतित्वस्यैव शक्यतावच्छेदकत्वे सिद्धे वादृशकल्पनामतस्तद्गौरवं फलमुखमिति । ननु भावनान्वयेऽपि नियामकाभावात्तद्दोषतादवस्थ्यमत आह-भावनायाश्वेति । धात्वर्थविशेषणत्वेनान्वयादाह-विशेष्यत्वेनेति । कर्मत्वेत्यादि । इद. मपि तथाविशेषणत्वसूचनाय । अतएव चन्द्र इव मुखमुत्पद्यते इत्यादौ भुक्त्वा व्रजतीत्यादौ चानाख्यातार्थश्चन्द्रे क्त्वाप्रत्ययार्थे वा । कर्मत्वाचनवरुद्धो धात्व. र्थोऽपीत्यत माह-प्रथमेति । एवं च विशेष्यतासम्बन्धेनाख्यातार्थभावना. प्रकारक-समवायादिसंसर्गक-शाब्दबोधं प्रति इतरानन्वितार्थक-प्रथमान्तनामजन्योपस्थितिर्विषयतासम्बन्धेन कारणमिति सामान्यतः कार्यकारणभावः । - यत्तु चन्द्रस्येतरान्वितंत्वेन निराकाङ्कृत्वम् , एवं कर्मत्वाद्यनवरुद्धस्यापीति । तन्न, एकविशेष्यावरुद्धस्य विशेष्यान्तर एवाकाङ्क्षाविरहः, न तु विशेषणेऽपि । अतएवं कर्मत्वविशेषणस्यापि घटस्य नीलान्वये निराकक्षित्वं नीलं घटमानयेत्यादौ । विशेषणतयैवेति । तथा च न धात्वर्थे भावनान्वयः । अन्तिमोदाहरणमभिप्रेत्याह-भावनाया इति । बाधितत्वं धात्वर्थे प्रातिपदिकार्थे च । यद्यपि चात्र भावनापदेन संख्याकालाद्यतिरिक्त आख्यातार्य एवोच्यते अन्यथा जानातीत्यादौ संख्यान्वयो न स्यात् , तथा च प्रकृतेराश्रयत्वादेरबोध एव, तयापि पूर्वोक्तरीत्या कर्मत्वाद्यनवरुद्ध-प्रथमान्तपदाभावाद्भावनान्वयो बोद्धव्यः । अतएवाह-भावनाविशेष्यविरहादिति । अतएव संख्याया अनन्वयादेव । प्रथमोपस्थितमेकवचनमेव साधुत्वाय कलप्यत इति सम्प्रदायः । एवं चेति । भावनाया अबोधकत्व इत्यर्थः । यथायथं लटतिडादिनिय. न्त्रितम् । तथैवेति । वर्तमानत्वप्रकारेण धात्वर्थस्यैव प्रत्ययादित्यर्थः । इष्टसाधनत्वादेः सर्वत्र धात्वर्यान्वयस्वीकारेणात्र विशेषाभावेऽपि वस्तुगतिमवल. म्ब्योक्तम् । भावनाया विशेषणत्वेनान्वयनियमे संसर्गव्यवस्थामाह-भावनायाश्रेति । अन्यथा वक्तव्यक्रमेण । १७

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238